निकृन्तन्तमनीकानि शरदंष्ट्रं मनस्विनम् । चापव्यात्ताननं घोरमसिजिह्वं दुरासदम्
अनर्हं पुरुषव्याघ्रं ह्रीमन्तमपराजितम् । पातयामास कौन्तेयः कथं तमजितं युधि
उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे । परेषामुत्तमाङ्गानि प्रचिन्वन्तमथेषुभिः
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यतमाहवे । कालाग्निमिव दुर्धर्षं समचेष्टत नित्यशः
परिकृष्य स सेनां तु दशरात्रमनीकहा । दगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्
यः स शक्र इवाक्षय्यं वर्षं शरमयं क्षिपन् । जघान युधि योधानामर्बुदं दशभिर्दिनैः
स शेते निहतो भूमौ वातभुग्न इव द्रुमः । मम दुर्मन्त्रितेनाजौ यथा नार्हति भारतः
कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी । प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम्
कथं भीष्मेण संग्रामं प्राकुर्वन्पाण्डुनन्दनाः। कथं च नाजयद्भीष्मो द्रोणे जीवति सञ्जय
कृपे सन्निहिते तत्र भरद्वाजात्मजे तथा। भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः
कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना। भीष्मो विनिहतो युद्धे देवैरपि दुरासदः
यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् । अजितं जामदग्न्येन शक्रतुल्यपराक्रमम्
तं हतं समरे भीष्मं महारथकुलोदितम् । सञ्जयाचक्ष्व मे वीरं येन शर्म न विद्महे
मामकाः के महेष्वासा नाजहुः सञ्जयाच्युतम् । दुर्योधनसमादिष्टाः के वीराः पर्यवारयन्
यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः । कच्चित्ते कुरवः सर्वे नाजहुः सञ्जयाच्युतम्
अश्मसारमयं नूनं हृदयं मुदृढं मम। यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते
यस्मिन्सत्यं च मेधा च नीतिश्च भरतर्षभे । अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि
मौर्वीघोषस्तनयुत्नुः पृषत्कपृषतो महान् । धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः
योऽभ्यवर्षत कौन्तेयान्सपाञ्चालान्ससृञ्जयान्। निघ्नन्परथान्वीरो दानवानिव वज्रभृत्
इष्वस्त्रसागरं घोरं बाणग्रहं दुरासदम् । कार्मुकोर्मिणमक्षय्यमद्वीपं चलमप्लवम्
गदासिमकरावासं हयावर्त्तं गजाकुलम् । पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिःस्वनम्
हयान्गजपदातींश्च रथांश्च तरसा बहून् । निमञ्जयन्तं समरे परवीरापहारिणम्
विदह्यमानं कोपेन तेजसा च परंतपम् । वेलेव मकरावासं के वीराः पर्यवारयन्
भीष्मो यदकरोत्कर्म समरे सञ्जयारिहा । दुर्योधनहितार्थाय के तस्यास्य पुरोऽभवन्
के रक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः । पृष्ठतः के परान्वीरानपासेधन्यतव्रताः
के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके। के रक्षन्नुत्तरं चक्रं वीरा वीरकस्य युध्यतः
वामे चक्रे वर्तमानाः केऽघ्नन्सञ्जय सृञ्जयान्। अग्नतोऽग्न्यमनीकेषु केऽभ्यरक्षन्दुरासदम्
पार्श्वतः केऽभ्यरक्षन्त गच्छन्तो दुर्गमां गतिम्। समूहे के परान्वीरान्प्रत्ययुध्यन्त सञ्जय
रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते। दुर्जयानामनीकानि नाजयंस्तरसा युधि
सर्वलोकेश्वरस्येव परमस्य प्रजापतेः। कथं प्रहर्तुमपि ते शेकुः सञ्जय पाण्डवाः