अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ। श्रूयते परमोदारः पतगोऽसौ विभावसुः
एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत । स राहुश्छादयत्येतौ यथाकालं महात्तया
चन्द्रादित्यौ महाराज संक्षेपोऽयमुदाहृतः । इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा
सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि । यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत्
तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति। श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम्
श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः । आयुर्बलं च कीर्तिश्च तस्य तेजश्च वर्धते
यः शृणोति महीपाल पर्वणीदं यतव्रतः । प्रीयन्ते पितरस्तस्य तथैव च पितामहाः
इदं तु भारतं वर्षं यत्र वर्तामहे वयम्। पूर्वैः प्रवर्तितं पुण्यं तत्सर्वं श्रुतवानसि
अथ गावल्गणिर्विद्वान्संयुगादेत्य भारत। प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित्
ध्यायते धृतराष्ट्राय सहसोत्पत्य दुःखितः । आचष्ट निहतं भीष्मं भरतानां पितामहम्
सञ्जयोऽहं महाराज नमस्ते भरतर्षभ। हतो भीष्मः शान्तनवो भरतानां पितामहः
ककुदं सर्वयोधानां धाम सर्वधनुष्मताम्। शरतल्पगतः सोऽद्य शेते कुरुपितामहः
यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत्। स शेते निहतो राजन्संख्ये भीष्मः शिखण्डिना
यः सर्वान्पृथिवीपालान्समवेतान्महामृधे । जिगायैकरथेनैव काशिपुर्यां महारथः
जामदग्न्यं रणे रामं योऽयुध्यदपसंभ्रमः । न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना
महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव । समुद्र इव गाम्भीर्यो सहिष्णुत्वे धरासमः
शरदंष्ट्रो धनुर्वक्रः खङ्गिजिह्वो दुरासदः। नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः
पाण्डवानां महासैन्यं यं दृष्ट्वोद्यतमाहवे। प्रावेपत भयोद्विग्नं सिंह दृष्ट्वेव गोगणः
परिरक्ष्य स सेनां ते दशरात्रमनीकहा । जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्
यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः। जघान युधि योधानामर्बुदं दशभिर्दिनैः
स शेते निहतो भूमौ वातभग्न इव द्रुमः। तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत
कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना। कथं रथार्त्स न्यपतित्पिता मे वासवोपमः
कथमाचक्ष्व मे योधा हीना भीष्मेण संजय । बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा
तस्मिन्हते महाप्राज्ञे महेष्वासे महाबले । महासत्वे नरव्याघ्रे किमु आसीन्मनस्तव
आर्तिं परामाविशति मनः शंससि मे हतम् । कुरूणामृषभं वीरमकम्पं पुरुषर्षभम्
के तं यान्तमनुप्राप्ताः के वास्यसन्पुरोगमाः। केऽतिष्ठन्के न्यवर्तन्त केऽन्ववर्तन्त सञ्जय
के शूरा रथशार्दूलमद्भुतं क्षत्रियर्षभम् । तथाऽनीकं गाहमानं सहसा पृष्ठतोऽन्वयुः
यस्तमोर्क इवापोहन्परसैन्यममित्रहा । सहस्ररश्मिप्रतिमः परेषां भयमादधत्
अकरोद्दुष्करं कर्म रणे पाण्डुसुतेषु यः । ग्रसमानमनीकानि य एनं पर्यवारयन्
कृतिनं तं दुराधर्षं सञ्जयास्य त्वमन्तिके । कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन्