असंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा । तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव हि
असंबद्धा महाराज तान्निगृह्णन्ति ते गजाः । पुष्करैः पद्मसंकाशैर्विकसद्भिर्महाप्रभैः
शतधा पुनरेवाशु ते तान्मुञ्चन्ति नित्यशः । श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः । आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः
परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः। दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय
उक्ता द्वीपा महाराज ग्रहं वै शृणु तत्त्वतः । स्वर्भानोः कौरवश्रेष्ठ यावदेव प्रमाणतः
परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः । योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ । षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः । विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम्
एकोनषष्टिविष्कम्भं शीतरश्मेर्महात्मनः
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन। विष्कम्भेण ततो राजन्मण्डलं त्रिंशता समम्
अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ। श्रूयते परमोदारः पतगोऽसौ विभावसुः
एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत । स राहुश्छादयत्येतौ यथाकालं महात्तया
चन्द्रादित्यौ महाराज संक्षेपोऽयमुदाहृतः । इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा
सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि । यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत्
तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति। श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम्
श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः । आयुर्बलं च कीर्तिश्च तस्य तेजश्च वर्धते
यः शृणोति महीपाल पर्वणीदं यतव्रतः । प्रीयन्ते पितरस्तस्य तथैव च पितामहाः
इदं तु भारतं वर्षं यत्र वर्तामहे वयम्। पूर्वैः प्रवर्तितं पुण्यं तत्सर्वं श्रुतवानसि
अथ गावल्गणिर्विद्वान्संयुगादेत्य भारत। प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित्
ध्यायते धृतराष्ट्राय सहसोत्पत्य दुःखितः । आचष्ट निहतं भीष्मं भरतानां पितामहम्
सञ्जयोऽहं महाराज नमस्ते भरतर्षभ। हतो भीष्मः शान्तनवो भरतानां पितामहः
ककुदं सर्वयोधानां धाम सर्वधनुष्मताम्। शरतल्पगतः सोऽद्य शेते कुरुपितामहः
यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत्। स शेते निहतो राजन्संख्ये भीष्मः शिखण्डिना
यः सर्वान्पृथिवीपालान्समवेतान्महामृधे । जिगायैकरथेनैव काशिपुर्यां महारथः
जामदग्न्यं रणे रामं योऽयुध्यदपसंभ्रमः । न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना
महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव । समुद्र इव गाम्भीर्यो सहिष्णुत्वे धरासमः
शरदंष्ट्रो धनुर्वक्रः खङ्गिजिह्वो दुरासदः। नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः
पाण्डवानां महासैन्यं यं दृष्ट्वोद्यतमाहवे। प्रावेपत भयोद्विग्नं सिंह दृष्ट्वेव गोगणः
परिरक्ष्य स सेनां ते दशरात्रमनीकहा । जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्
यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः। जघान युधि योधानामर्बुदं दशभिर्दिनैः