तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः । प्रसन्नश्चाभवत्तत्र प्रजानां व्यदधत्सुखम्
कुशस्तम्बः कुशद्वीपे मध्ये जनपदैः सह । संपूज्यते शाल्मलिश्च द्वीपे शाल्मलिके नृप
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः । संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा
गोमन्तः पर्वतो राजन्सुमहान्सर्वधातुमान् । यत्र नित्यं निवसति श्रीमान्कमललोचनः
मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः । कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः
सुनामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः । द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः । षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः
तेषामन्तरविष्कम्भो द्विगुणः सर्वभागशः । औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्
तृतीयं सुरथाकारं चतुर्थं कम्बलं स्मृतम् । धृतिमत्पञ्चमं वर्षं षष्ठं प्रभाकरम्
सप्तमं कापिलं वर्षं सप्तैते वर्षलम्भकाः । एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर
विहरन्ते रमन्ते च न तेषु म्रियते जनः। न तेषु दस्यवः सन्ति म्लेच्छजात्योपि वा नृप
गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव । अवशिष्टेषु सर्वेषु वक्ष्यामि मनुजेश्वर
यथाश्रुतं महाराज तदव्यग्रमनाः श्रृणु । क्रौञ्चद्वीपे महारा क्रौञ्चो नाम महागिरिः
क्रौञ्चात्परो वामनको वामनादन्धकारकः। अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः
मैनाकात्परतो रादन्गोविन्दो गिरिरुत्तमः । गोविन्दात्परतो राजन्निबिडो नाम पर्वतः
परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन । देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः श्रृणु
क्रोञ्चस्य कुशलो देशो वामनस्य मनोनुगः। मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह
उष्णात्परः प्रावरकः प्रावारादन्धकारकः। अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः। सिद्धचारणसंकीर्णो गौरप्रायो जनाधिप
एते देशा महाराज देवगन्धर्वसेविताः । पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान्
तत्र नित्यं प्रभवति स्वयं देवः प्रजापतिः । तं पर्युपासते नित्यं देवाः सर्वे महर्षयः
वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप। जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत
द्वीपेषु तेषु सर्वेषु प्रजानां कुरुसत्तम। ब्रह्मचर्येण सत्येन प्रजानां हि दमेन च
आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः। एको जनपदो राजन्द्वीपेष्वेतेषु भारत। उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः । द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा
स राजा स शिवो राजन्स पिता प्रतितामहः । गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः
भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् । सिद्धमेव महाबाहो तद्धि भुञ्जन्ति नित्यदा
ततः परं समा नाम दृश्यते लोकसंस्थितिः। चतुरश्र महाराज त्रयस्त्रिंशत्तु मण्डलम्
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः। दिग्गजा भरतश्रेष्ठ वामनैरावतादयः
सुप्रतीकस्तदा राजन्प्रभिन्नकरटामुखः। तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे