महामेरुर्महाकाशो जलदः कुमुदोत्तरः । जलधारो महाराज सुकुमार इति स्मृतः
रेवतस्य तु कौमारः श्यामस्य मणिकाञ्चनः । केसरस्याथ मौदाकी परेण तु महापुमान्
परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च। जम्बूद्वीपेन संक्यातस्तस्य मध्ये महाद्रुमः
शाको नाम महाराज प्रजा तस्य सदानुगा। तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च। धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते । दीर्घायुषो महाराज जरामृत्युविवर्जिताः
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः। नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गता
सुकुमारी कुमारी च शीताशी वेणिका तथा। महानदी च कौरव्य तथा मणिजला नदी
चक्षुर्वर्धनिका चैव नदी भरतसत्तम । तत्र प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह
सहस्राणां शतान्येव यतो वर्षति वासवः । न तासां नामधेयानि परिमाणं तथैव च
शक्यन्ते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः । तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः
मङ्गाश्च मशकाश्चैव मानसा मन्दगास्तथा । मङ्गा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप
मशकेषु च राजन्या धार्मिकाः सर्वकामदाः । मानसाश्च महाराज वैश्यधर्मोपजीविनः
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः । शूद्रास्तु मन्दगा नित्यं पुरुषा धर्मशीलिनः
न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः। स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम्
एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम्। एतदेव च श्रोतव्यं शाकद्वीपे महौजसि
उत्तरेषु च कौरव्य द्वीपेषु श्रूयते कथा। एवं तत्र महाराज ब्रुवतश्च निबोध मे
घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः । सुरोदः सागरश्चैव तथान्यो जलसागरः
परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप । पर्वताश्च महाराज समुद्रैः परिवारिताः
गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् । पर्वतः पश्चिमे कृष्णो नारायणसखो नृप
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः । प्रसन्नश्चाभवत्तत्र प्रजानां व्यदधत्सुखम्
कुशस्तम्बः कुशद्वीपे मध्ये जनपदैः सह । संपूज्यते शाल्मलिश्च द्वीपे शाल्मलिके नृप
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः । संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा
गोमन्तः पर्वतो राजन्सुमहान्सर्वधातुमान् । यत्र नित्यं निवसति श्रीमान्कमललोचनः
मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः । कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः
सुनामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः । द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः । षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः
तेषामन्तरविष्कम्भो द्विगुणः सर्वभागशः । औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्
तृतीयं सुरथाकारं चतुर्थं कम्बलं स्मृतम् । धृतिमत्पञ्चमं वर्षं षष्ठं प्रभाकरम्
सप्तमं कापिलं वर्षं सप्तैते वर्षलम्भकाः । एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर