यथाविधि यथान्यायं क्रियाः सर्वास्त्वकारयत्। दन्तैः शुक्लैः शिखरिभिःसिंहसंहननोऽभवत्
चक्राङ्कितकरः श्रीमान्स्वयं विष्णुरिवापरः। `चतुष्किष्कुर्महातेजा महामूर्धा महाबलः
कुमारो देवगर्भाभः स तत्राशु व्यवर्धत। `ऋषेर्भयात्तु दुष्यन्तः स्मरन्नैवाह्वयत्तदा
गते काले तु महति न सस्मार तपोधनाम्।' षड्वर्षेषु ततो बालः कण्वाश्रमपदं प्रति
व्याघ्रान्सिंहान्वराहांश्च वृकांश्च महिषांस्तथा। `ऋक्षांश्चाभ्यहनद्व्यालान्पद्भ्यामाश्रमपीडकान्
बलाद्भुजाभ्यां संगृह्य बलवान्संनियम्य च।' बद्ध्वा वृक्षेषु दौष्यन्तिराश्रमस्य समन्ततः
आरुरोह द्रुमांश्चैव क्रीडन्स्म परिधावति। `वनं च लोडयामास सिंहव्याघ्रगणैर्वृतम्
ततश्च राक्षसान्सर्वान्पिशाचांश्च रिपून्रणे। मुष्टियुद्धेन तान्हत्वा ऋषीनाराधयत्तदा
कश्चिद्दितिसुतस्तं तु हन्तुकामो महाबलः। वध्यमानांस्तु दैतेयानमर्षी तं समभ्ययात्
तमागतं प्रहस्यैव बाहुभ्यां परिगृह्य च। दृढं चाबध्य बाहुभ्यां पीडयामास तं तदा
मर्दितो न शशाकास्मान्मोचितुं बलवत्तया। प्राक्रोशद्भैरवं तत्र द्वारेभ्यो निःसृतं त्वसृक्
तेन शब्देन वित्रस्ता मृगाः सिंहादयो गणाः। सुस्रुवुश्च शकृन्मूत्रमाश्रमस्थाश्च सुस्रुवुः
निरसुं जानुभिः कृत्वा विससर्ज च सोऽपतत्। तद्दृष्ट्वा विस्मयं जग्मुः कुमारस्य विचेष्टितम्
नित्यकालं वध्यमाना दैतेया राक्षसैः सह। कुमारस्य भयादेव नैव जग्मुस्तदाश्रमम्
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः। कण्वेन सहिताः सर्वे दृष्ट्वा कर्मातिमानुषम्
अस्त्वयं सर्वदमनः सर्वं हि दमयत्यसौ। स सर्वदमनो नाम कुमारः समपद्यत
विक्रमेणौजसा चैव बलेन च समन्वितः। `अप्रेषयति दुष्यन्ते महिष्यास्तनयस्य च
पाण्डुभावपरीताङ्गीं चिन्तया समभिप्लुताम्। लम्बालकां कृशां दीनां तथा मलिनवाससम्
शकुन्तलां च संप्रेक्ष्य प्रदध्यौ स मुनिस्तदा। शास्त्राणि सर्ववेदाश्च द्वादशाब्दस्य चाभवन्
तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम्। समयो यौवराज्याय इत्यनुध्याय स द्विजः
शृणु भद्रे मम सुते मम वाक्यं शुचिस्मिते
पतिव्रतानां नारीणां विशिष्टमिति चोच्यते। पतिशुश्रूषणं पूर्वं मनोवाक्कायचेष्टितैः
अनुज्ञाता मया पूर्वं पूजयैतद्व्रतं तव। एतेनैव च वृत्तेन पुण्याँल्लोकानवाप्य च
तस्यान्ते मानुषे लोके विशिष्टां तप्स्यसे श्रियम्। तस्माद्भद्रेऽद्य यातव्यं समीपं पौरवस्य ह
स्वयं नायाति मत्वा ते गतं कालं शुचिस्मिते। गत्वाऽऽराधय राजानं दुष्यन्तं हितकाम्यया
दौष्यन्तिं यौवराज्यस्थं दृष्ट्वा प्रीतिमवाप्स्यसि। देवतानां गुरूणां च क्षत्रियाणां च भामिनि
भर्तॄणां च विशेषेम हितं संगमनं भवेत्। तस्मात्पुत्रि कुमारेण गन्तव्यं मत्प्रियेप्सया
प्रतिवाक्यं न दद्यास्त्वं शपिता मम पादयोः
एवमुक्त्वा सुतां तत्र पौत्रं कण्वोऽभ्यभाषत। परिष्वज्य च बाहुभ्यां मूर्ध्न्युपाघ्राय पौरवम्
सोमवंशोद्भवो राजा दुष्यन्त इति विश्रुतः। तस्याग्रमहिषी चैषा तव माता शुचिव्रता