महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः। प्रियदर्शना वपुष्मन्तो महावीर्या धनुर्धराः
वरार्हा युधि जायन्ते क्षत्रियाः शूरसत्तमाः। त्रेतायां क्षत्रिया राजन्सर्वे वै चक्रवर्तिनः
सर्ववर्णाश्च जायन्ते सदा चैव च द्वापरे । महोत्साहा वीर्यवन्तः परस्परजयैषिणः
तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप। लुब्धा अनृतकाश्चैव तिष्ये जायन्ति भारत
ईर्ष्या मानस्तथा क्रोधो मायाऽसूया तथैव च। तिष्ये भवति भूतानां रागो लोभश्च भारत
संक्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप । गुणोत्तरं हैमवतं हरिवर्षं ततः परम्
जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सञ्जय। विष्कम्भमस्य प्रब्रूहि परिमाणं तु तत्त्वतः
समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनम् । शाकद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय
शाल्मलिं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च। ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा
राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत्। सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यौ ग्रहं तथा
अष्टादश सहस्राणि योजनानि विशांपते। षट् शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः
लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः । नानाजनपदाकीर्णो मणिविद्रुमचित्रितः
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः। सिद्धचारणसंकीर्णः सागरः परिमण्डलः
शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव । शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन
जम्बूद्वीपपरमाणेन द्विगुणः स नराधिप । विष्कम्भेण महाराज सागरोऽपि विभागशः
क्षीरोदो भरतश्रेष्ठ येन संपरिवारिताः । तत्र पुण्या जनपदास्तत्र न म्रियते जनः। कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते
शाकद्वीपस्य संक्षेपो यथावद्भरतर्षभ। उक्त एष महाराज किमन्यत्कथयामि ते
शाकद्वीपस्य संक्षेपो यथावदिह सञ्जय । उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः
तथैव पर्वता राजन्सप्तात्र मणिभूषिताः। रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु
अतीव गुणवत्सर्वं तत्र पुण्यं जनाधिप
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते। प्रागायतो महाराज मलयो नाम पर्वतः
ततो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः । ततः परेण कौरव्य जलधारो महागिरिः
ततो नित्युमुपादत्ते वासवः परमं जलम्। ततो वर्षं प्रभवति वर्षकाले जनेश्वर
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठिता। रेवती दिवि नक्षत्रं पितामहकृतो विधिः
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः । नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः । यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर
सुमहान्संशयो मेऽद्य प्रोक्तोऽयं सञ्जय त्वया। प्रजाः कथं सूतपुत्र संप्राप्ताः श्यामतामिह
सर्वेष्वेव महाराज द्वीपेषु कुरुनन्दन। गौरः कृष्णश्च पतगस्तयोर्वर्णान्तरे नृप
श्यामो यस्मात्प्रवृत्तो वै तस्माच्छ्यामो गिरिःस्मृतः
ततः परं कौरवेन्द्र दुर्गशैलो महोदयः । केसरः केसरयुतो यतो वातः प्रवर्तते
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः। वर्षाणि तेषु कौरव्य सप्तोक्तानि मनीषिभिः