पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः । पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः
अनिष्पन्दा इष्टगन्धा निराहारा जितेन्द्रियाः । देवलोकच्युताः सर्वे तथा विरजसो नृप
त्रयोदशसहस्राणि वर्षाणां ते जनाधिप । आयुःप्रमाणं जीवन्ति नरा भरतसत्तम
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः । हरिर्वसति वैकुण्ठः शकटे कनकोञ्ज्वले
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् । अग्निवर्णं महातेजो जाम्बूनदविभूषितम्
स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ । संक्षेपो विस्तरश्चैव कर्ता कारयिता तथा
पृथिव्यापस्तथाऽऽकाशं वायुस्तेजश्च पार्थिव । स यज्ञः सर्वभूतनामास्यं तस्य हुताशनः
एवमुक्तः संजयेन धृतराष्ट्रो महामनाः। ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप
स विचिन्त्य महातेजाः पुनरेवाब्रवीद्वचः। असंशयं सूतपुत्र कालः संक्षिपते जगत्
सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् । नरो नारायणश्चैव सर्वज्ञः सर्वभूतहृत्
देवा वैकुण्ठ इत्याद्दुर्वेदा विष्णुरिति प्रभुम्
भारतस्यास्य वर्षस्य तथा हैमवतस्य च। प्रमाणमायुषः सूत बलं चापि शुभाशुभम्
अनागतमतिक्रान्तं वर्तमानं च संजय । आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च
चत्वारि भारते वर्षे युगानि भरतर्षभ। कृतं त्रेता द्वापरं च तिष्यं च कुरुवर्धन
पूर्वं कृतयुगं नाम ततस्रेतायुगं प्रभो । संक्षेपाद्द्वापरस्याथ ततस्तिष्यं प्रवर्तते
चत्वारि तु सहस्राणि वर्षाणां कुरुसत्तम। आयुःसंख्या कृतयुगे संख्याता राजसत्तम
तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप । द्वे सहस्रे द्वापरे तु भुवि तिष्ठन्ति सांप्रतम्
न प्रमाणस्थितिर्ह्यस्ति तिष्येऽस्मिन्भरतर्षभ । गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च
महाबला महासत्वाः प्रज्ञागुणसमन्विताः। प्रजायन्ते च जाताश्च शतशोऽथ सहस्रशः
जाताः कृतयुगे राजन्धनिनः प्रयदर्शनाः । प्रजायन्ते च जाताश्च मुनयो वै तपोधनाः
महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः। प्रियदर्शना वपुष्मन्तो महावीर्या धनुर्धराः
वरार्हा युधि जायन्ते क्षत्रियाः शूरसत्तमाः। त्रेतायां क्षत्रिया राजन्सर्वे वै चक्रवर्तिनः
सर्ववर्णाश्च जायन्ते सदा चैव च द्वापरे । महोत्साहा वीर्यवन्तः परस्परजयैषिणः
तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप। लुब्धा अनृतकाश्चैव तिष्ये जायन्ति भारत
ईर्ष्या मानस्तथा क्रोधो मायाऽसूया तथैव च। तिष्ये भवति भूतानां रागो लोभश्च भारत
संक्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप । गुणोत्तरं हैमवतं हरिवर्षं ततः परम्
जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सञ्जय। विष्कम्भमस्य प्रब्रूहि परिमाणं तु तत्त्वतः
समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनम् । शाकद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय
शाल्मलिं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च। ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा
राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत्। सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यौ ग्रहं तथा