तस्य मूर्धाभिषेकस्तु भद्राश्वस्य विशांपते । भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः
कालाम्रस्तु महाराज नित्यपुष्पफलः शुभः । द्रुमश्च योजनोत्सेधः सिद्धचारणसेवितः
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः। स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्वचन्द्रनिभाननाः । चन्द्रशीतलगात्र्यश्च नृत्तिगीतविशारदाः
दशवर्षसहस्राणि तत्रायुर्भरतर्षभ । कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु। सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः
सर्वकामफलः पुण्यः सिद्धचारणसेवितः। तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः
योजनानां सहस्त्रं च शतं च भरतर्षभ । उत्सेधो वृक्षराजस्य दिवस्पृङ्भनुजेश्वर
अरत्नीनां सहस्रं च शतानि दश पञ्च च । परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम्
पतमानानि तान्युर्वी कुर्वन्ति विपुलं स्वनम् । मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसन्निभम्
तस्या जम्बाः फलरसो नदी भूत्वा जनाधिप । मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून्
तत्र तेषां मनःशान्तिर्न पिपासा जनाधिप । तस्मिन्फलरसे पीते न जरा बाधते च तान्
तत्र जाम्बूनदं नाम कनकं देवभूषणम् । इन्द्रगोपकसंकाशं जायते भास्वरं तु तत्
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः । तथा माल्यवतः श्रृङ्गे दृश्यते हव्यवाट् सदा
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ । तथा माल्यवतः श्रृङ्गे पूर्वपूर्वानुगण्डिका
योजनानां सहस्राणि पञ्चषण्माल्यवानथ । महारजतसंकाशा जायन्ते तत्र मानवाः
ब्रह्मलोकच्युताः सर्वे सर्वे सर्वेषु साधवः । तपस्तप्यन्ति ते तीव्रं भवन्ति ह्यूर्ध्वरेतसः । रक्षणार्थं तु भूतानां प्रविश्यन्ते दिवाकरम्
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च। अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम्
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च। आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम्
वर्षाणां चैव नामानि पर्वतानां च संजय। आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु। वर्षं रमणकं नाम जायन्ते तत्र मानवाः
शुक्लाभिजनसंपन्नाः सर्वे सुप्रियदर्शनाः। निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः
दशवर्षसहस्राणि शतानि दश पञ्च च। जीवन्ति ते महाराज नित्यं मुदितमानसाः
दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण तु। वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी
यत्र चायं महाराज पक्षिराट् पतगोत्तमः। यक्षानुगा महाराज धनिनः प्रियदर्शनाः
महाबलास्तत्र जना राजन्मुदितमानसाः। एकादशसहस्राणि वर्षाणां ते जनाधिप
आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च। श्रृङ्गाणि वै श्रृङ्गवतस्त्रीण्येव मनुजाधिप
एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् । सर्वरत्नमयं चैकं भवनैरुपशोभितम् । तत्र स्वयंप्रभा देवी नित्यं वसति शाण्डिली
उत्तरेण तु श्रृङ्गस्य समुद्रान्ते जनाधिप । वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम्
न तत्र सूर्यस्तपति न जीर्यन्ते च मानवाः । चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः