सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप । अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप
ये क्षरन्ति सदा क्षीरं षड्रसं चामृपोतमम् । वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका । सर्वर्तुसुखसंस्पर्शा निष्पङ्का च जनाधिप । पुष्करिष्यः शुभास्तत्र सुखस्पर्शा मनोरमाः
देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः। शुक्लाभिजनसंयन्नाः सर्वे सुप्रियदर्शनाः
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः। तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम्
मिथुनं जायते काले समं तच्च प्रवर्धते। तुल्यरूगुणोपेतं समवेषं तथैव च
एवमेवानुरूपं च चक्रवाकसमं विभो । निरापगाम ते लोका नित्यं मुदितमानसाः
दशवर्षसहस्राणि शशवर्षशतानि च । जीवन्ति ते महाराज न चान्योन्यं जहत्युत
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः । तान्निर्हरन्तीह मृतान्दरीषु प्रक्षिपन्ति च
उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः। मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम्
तस्य मूर्धाभिषेकस्तु भद्राश्वस्य विशांपते । भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः
कालाम्रस्तु महाराज नित्यपुष्पफलः शुभः । द्रुमश्च योजनोत्सेधः सिद्धचारणसेवितः
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः। स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्वचन्द्रनिभाननाः । चन्द्रशीतलगात्र्यश्च नृत्तिगीतविशारदाः
दशवर्षसहस्राणि तत्रायुर्भरतर्षभ । कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु। सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः
सर्वकामफलः पुण्यः सिद्धचारणसेवितः। तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः
योजनानां सहस्त्रं च शतं च भरतर्षभ । उत्सेधो वृक्षराजस्य दिवस्पृङ्भनुजेश्वर
अरत्नीनां सहस्रं च शतानि दश पञ्च च । परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम्
पतमानानि तान्युर्वी कुर्वन्ति विपुलं स्वनम् । मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसन्निभम्
तस्या जम्बाः फलरसो नदी भूत्वा जनाधिप । मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून्
तत्र तेषां मनःशान्तिर्न पिपासा जनाधिप । तस्मिन्फलरसे पीते न जरा बाधते च तान्
तत्र जाम्बूनदं नाम कनकं देवभूषणम् । इन्द्रगोपकसंकाशं जायते भास्वरं तु तत्
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः । तथा माल्यवतः श्रृङ्गे दृश्यते हव्यवाट् सदा
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ । तथा माल्यवतः श्रृङ्गे पूर्वपूर्वानुगण्डिका
योजनानां सहस्राणि पञ्चषण्माल्यवानथ । महारजतसंकाशा जायन्ते तत्र मानवाः
ब्रह्मलोकच्युताः सर्वे सर्वे सर्वेषु साधवः । तपस्तप्यन्ति ते तीव्रं भवन्ति ह्यूर्ध्वरेतसः । रक्षणार्थं तु भूतानां प्रविश्यन्ते दिवाकरम्
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च। अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम्
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च। आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम्
वर्षाणां चैव नामानि पर्वतानां च संजय। आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः