अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्। प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम्
सुदर्शनं प्रवक्ष्यामि द्वीपं तु कुरुनन्दन। परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः
नदीजालप्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः । पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा
वृक्षैः पुष्पफलोपेतैः संपन्नधनधान्यवान् । लवणेन समुद्रेण समन्तात्परिवारितः
यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः । एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले
द्विरशस्तु ततः प्लक्षो द्विरंशः शाल्मलिर्महान् । द्विरंशः पिप्पलस्तस्य द्विरंशश्च कुशो महान्। सर्वौषधिसमापन्नः पर्वतैः परिवारितः
आपस्ततोऽन्या विज्ञेयाः शेषः संक्षेप उच्यते। ततोऽन्य उच्यते चायमेनं संक्षेपतः श्रृणु
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय। निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम्
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे। उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः। पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च
सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप । अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप
ये क्षरन्ति सदा क्षीरं षड्रसं चामृपोतमम् । वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका । सर्वर्तुसुखसंस्पर्शा निष्पङ्का च जनाधिप । पुष्करिष्यः शुभास्तत्र सुखस्पर्शा मनोरमाः
देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः। शुक्लाभिजनसंयन्नाः सर्वे सुप्रियदर्शनाः
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः। तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम्
मिथुनं जायते काले समं तच्च प्रवर्धते। तुल्यरूगुणोपेतं समवेषं तथैव च
एवमेवानुरूपं च चक्रवाकसमं विभो । निरापगाम ते लोका नित्यं मुदितमानसाः
दशवर्षसहस्राणि शशवर्षशतानि च । जीवन्ति ते महाराज न चान्योन्यं जहत्युत
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः । तान्निर्हरन्तीह मृतान्दरीषु प्रक्षिपन्ति च
उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः। मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम्
तस्य मूर्धाभिषेकस्तु भद्राश्वस्य विशांपते । भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः
कालाम्रस्तु महाराज नित्यपुष्पफलः शुभः । द्रुमश्च योजनोत्सेधः सिद्धचारणसेवितः
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः। स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्वचन्द्रनिभाननाः । चन्द्रशीतलगात्र्यश्च नृत्तिगीतविशारदाः
दशवर्षसहस्राणि तत्रायुर्भरतर्षभ । कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु। सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः
सर्वकामफलः पुण्यः सिद्धचारणसेवितः। तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः
योजनानां सहस्त्रं च शतं च भरतर्षभ । उत्सेधो वृक्षराजस्य दिवस्पृङ्भनुजेश्वर
अरत्नीनां सहस्रं च शतानि दश पञ्च च । परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम्
पतमानानि तान्युर्वी कुर्वन्ति विपुलं स्वनम् । मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसन्निभम्