ग्राम्याणां पुरुषाः श्रेष्ठाः सिंहाश्चारण्यवासिनाम् । सर्वेषामेव भूतानामन्योन्येनोपजीवनम्
उद्भिञ्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः । वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः
तेषां विंशतिरेकोना महाभूतेषु पञ्चसु । चतुर्विशतिरुद्दिष्टा गायत्री लोकसंमता
य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् । तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति
अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः । सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा
ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप । गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः । एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश
भूमौ च जायते सर्वं भूमौ सर्वं विनश्यति । भूमिः प्रतिष्ठा भूतानां भूमिरेव सनातनम्
यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् । तत्रातिगृद्धा राजानो विनिघ्नन्तीतरेतरम्
नदीनां पर्वतानां च नामधेयानि संजय । तथा जनपदानां च ये चान्ये भूमिमाश्रिताः
प्रमाणं च प्रमाणज्ञ पृथिव्या मम सर्वतः । निखिलेन समाचक्ष्व काननानि च संजय
पञ्चेमानि महाराज महाभूतानि संग्रहात्। जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः
भूमिरापस्तथा वायुरग्निराकाशमेव च। गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः। भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिःक
चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते। शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः । शब्दः स्पर्शश्च वायौ द्वौ अकाशे शब्द एव तु
एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु। वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः
अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा
यदा तु विषमीभावमाविशन्ति परस्परम् । तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा
आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः । सर्वाम्यपरिमेयाणि तदेषां रूपमैश्वरम्
तत्रतत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः । तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्। प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम्
सुदर्शनं प्रवक्ष्यामि द्वीपं तु कुरुनन्दन। परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः
नदीजालप्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः । पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा
वृक्षैः पुष्पफलोपेतैः संपन्नधनधान्यवान् । लवणेन समुद्रेण समन्तात्परिवारितः
यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः । एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले
द्विरशस्तु ततः प्लक्षो द्विरंशः शाल्मलिर्महान् । द्विरंशः पिप्पलस्तस्य द्विरंशश्च कुशो महान्। सर्वौषधिसमापन्नः पर्वतैः परिवारितः
आपस्ततोऽन्या विज्ञेयाः शेषः संक्षेप उच्यते। ततोऽन्य उच्यते चायमेनं संक्षेपतः श्रृणु
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय। निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम्
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे। उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः। पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च