देवताप्रतिमाश्चैव कम्पन्ति च हसन्ति च। वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च
अनाहता दुन्दुभयः प्रणदन्ति विशांपते । अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः
कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा । सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः
गृहीतशस्त्राः क्रोशन्ति चर्मिणो वाजिपृष्ठगाः । अरुणोदये प्रदृश्यन्ते शतशः शलभव्रजाः
उभे सन्ध्ये प्रकाशन्ते दिशो दाहसमन्विते। पर्जन्यः पांसुवर्षी च मांसवर्षी च भारत
या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता। अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः
रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः । व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम्
अनभ्रे च महाघोरस्तनितं श्रूयते भृशम् । वाहनानां च रुदतां निपतन्त्युश्रुबिन्दवः
एवमुक्त्वा ययौ व्यासो धृतराष्ट्रय धीमते। धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत
स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः । संजयं संशितात्मानमपृच्छद्रतर्षभ
संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः । अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरिह
पार्थिवाः पृथिवीहेतोः समभित्यज्य जीवितम् । न वा शाम्यन्ति निघ्नन्तो वर्धयन्ति यमक्षयम्
भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् । मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व संजय
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च। कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले
देशानां च परीमाणं नगराणां च संजय । श्रोतुमिच्छामि तत्त्वेन यत एते समागताः
दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा। प्रभावात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः
यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान्। शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ
द्विविधानीह भूतानि चराणि स्थावराणि च। त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः
त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः। जरायुजानां प्रवरा मानवाः पशवश्च ये
नानारूपधरा राजंस्तेषां भेदाश्चतुर्दश । वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः
ग्राम्याणां पुरुषाः श्रेष्ठाः सिंहाश्चारण्यवासिनाम् । सर्वेषामेव भूतानामन्योन्येनोपजीवनम्
उद्भिञ्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः । वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः
तेषां विंशतिरेकोना महाभूतेषु पञ्चसु । चतुर्विशतिरुद्दिष्टा गायत्री लोकसंमता
य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् । तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति
अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः । सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा
ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप । गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः । एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश
भूमौ च जायते सर्वं भूमौ सर्वं विनश्यति । भूमिः प्रतिष्ठा भूतानां भूमिरेव सनातनम्
यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् । तत्रातिगृद्धा राजानो विनिघ्नन्तीतरेतरम्
नदीनां पर्वतानां च नामधेयानि संजय । तथा जनपदानां च ये चान्ये भूमिमाश्रिताः