षष्टिर्नागसहस्राणि दशान्यानि च भारत । युधिष्ठिरस्य यान्यासन्युधि सेना महात्मनः
क्षरन्त इव जीमूताः प्रभिन्नकरटामुखाः । राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः
एवं तस्य बलं भीमं कुन्तीपुत्रस्य धीमतः । यदाश्रित्याथ युयुधे धार्तराष्ट्रं सुयोधनम्
ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः। नर्दन्तः प्रययुस्तेषाणनीकानि सहस्रशः
तत्र भेरीसहस्राणि शङ्खानामयुतानि च । न्यवादयन्त संहृष्टाः सहस्रायुतशो नराः
ततः पूर्वापरे सैन्ये समीक्ष्य भगवानृषिः। सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः
भविष्यति रणे घोरे भरतानां पितामहः । प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित्
वैचित्रवीर्यं राजानं रहस्स्थमिदमब्रवीत् । शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा
राजन्परिकालास्ते पुत्राश्चान्ये च पार्थिवाः। ते हिंसन्तीव सङ्ग्रामे समासाद्येतरेतरम्
तेषु कालपरीतेषु विनश्यत्स्वेव भारत । कालपर्यायमाहाय मा स्म शोके मनः कृथा
यदि चेच्छसि संग्रामं द्रुष्टुमेनं विशांपते । चक्षुर्ददानि ते पुत्र युद्धमेतन्निशामया
न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम
तस्मिन्ननिच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति। वराणामीश्वरो व्यासः संजयाय वरं ददौ
एष ते संजयो राजन्युद्धमेतद्वदिष्यति। एतस्य सर्वं संग्रामे न परोक्षं भविष्यति
चक्षुषा संजयो राजन्दिव्येनैव समन्वितः । कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति
प्रकाशं वाऽप्रकाशं वा दिवा वा यदि वा निशि । मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः
नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः । गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते
अहं तु कीर्तिमेतेषां करूणां भरतर्षभ । पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः
दिष्टमेतन्नरव्याघ्र नाभिशोचितुमर्हसि । न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः
एवमुक्त्वा स भगवान्कुरूणां प्रतितामहः । पुनरेव महाभागो धृतराष्ट्रमुवाच ह
इह युद्धे महाराज भविष्यति महान्क्षयः । तथेह च निमित्तानि भयदान्युपलक्षये
श्येना गृध्राश्च काकाश्च काङ्काश्च सहिता बकैः । संपतन्ति ध्वजाग्रेषु समवायांश्च कुर्वते
अभ्यग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः । क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनां
कटाकटेति वाशन्तो भैरवा भयवेदिनः । कङ्काः क्रोशन्ति मध्याह्ने दक्षिणामभितो दिशं
उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत । उदयास्तमने सूर्यं कबन्धैः परिवारितम्
श्वेतलोहितपर्यन्ताः कृष्णाग्रीवाः सविद्युतः । त्रिवर्णाः परिघाः सन्धौ भानुमावारयन्त्युत
ज्वलितार्के .......त्रं निर्विशेषदिनक्षपम् । चन्द्रोऽभूतग्निवर्णश्च पद्मवर्णे नभस्तले
आलक्षे प्रभया हीनां पौर्णमासीं च कीर्तिकीम् । चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णे नभस्तले
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः । राजानो राजपुत्राश्च शूराः परिघबाहवः
अन्तरिक्षे वराहस्य पृषदंशकस्य चोभयोः। प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये