महाभारतम्
स्वयमेव ततः पश्चाद्विराटद्रपदान्वितः। अथापरैर्महीपालैः सह प्रायान्महीपतिः
भीमधन्वायती सेना धृष्टद्युम्नेन पालिता। गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत
ततः पुनरनीकानि न्ययोजयत बुद्धिमान्। मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिश्चयम्
द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः । नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान्
दश चाश्वसहस्राणि द्विसहस्त्राणि दन्तिनाम् । अयुतं च पदातीनां रथाः पञ्चशतं तथा
भीमसेनस्य दुर्धर्षं प्रथमं प्रादिशद्बलम् । मध्यमे च विराटं च जयत्सेनं च पाण्डवः
महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ । वीर्यवन्तौ महात्मानौ युधामन्यूत्तमौजसौ
अन्वयातां तदा मध्ये वासुदेवधनञ्जयौ । `तौ दृष्ट्वा पृथिवीपाला नष्टमित्येव मेनिरे। अन्तरिक्षगताः सर्वे देवाः सेन्द्रपुरोगमाः
बभूवुरतिसंरब्धाः कृतप्रहरणा नराः। तेषां विंशतिसाहस्रा हयाः शूरैरधिष्ठिताः । पञ्च नागसहस्राणि रथवंशाश्च सर्वशः
पदातयश्च ये शूराः कार्मुकासिगदाधराः । सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः
युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे । तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः
तत्र नागसहस्राणि हयानामयुतानि च । तथा रथसहस्राणि पदातीनां च भारत
चेकितानः स्वसैन्येन महता पार्थिवर्षभ । धृष्टकेतुश्च चेदीनां प्रणेता पार्थिवो ययौ
सात्यकिश्च महेष्वासो वृष्णीनां प्रवरो रथः । वृतः शतसहस्रेण रथानां प्रमुदन्बली
क्षत्रदेवब्रह्मदेवौ रथस्थौ पुरुषर्षभौ । जघनं पालयन्तौ च पृष्ठतोऽनुप्रजग्मतुः
शकटापणवेशाश्च यानं युग्यं च सर्वशः । तत्र नागसहस्राणि हयानामयुतानि च । फल्गु सर्वं कलत्रं च यत्किंचित्कृशदुर्बलम्
कोशसञ्चयवाहांश्च कोष्ठागारं तथैव च। गजानीकेन संगृह्य शनैः प्रायाद्युधिष्ठिरः
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः। श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य वा विभुः
रथा विंशतिसाहस्रा ये तेषामनुयायिनः । हयानां दश कोट्यश्च महतां किंकिणीकिनाम्
गजा विंशतिसाहस्रा ईषादन्ताः प्रहारिणः। कुलीना भिन्नकरटा मेघा इव विसर्पिणः
षष्टिर्नागसहस्राणि दशान्यानि च भारत । युधिष्ठिरस्य यान्यासन्युधि सेना महात्मनः
क्षरन्त इव जीमूताः प्रभिन्नकरटामुखाः । राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः
एवं तस्य बलं भीमं कुन्तीपुत्रस्य धीमतः । यदाश्रित्याथ युयुधे धार्तराष्ट्रं सुयोधनम्
ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः। नर्दन्तः प्रययुस्तेषाणनीकानि सहस्रशः
तत्र भेरीसहस्राणि शङ्खानामयुतानि च । न्यवादयन्त संहृष्टाः सहस्रायुतशो नराः
ततः पूर्वापरे सैन्ये समीक्ष्य भगवानृषिः। सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः
भविष्यति रणे घोरे भरतानां पितामहः । प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित्
वैचित्रवीर्यं राजानं रहस्स्थमिदमब्रवीत् । शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा
राजन्परिकालास्ते पुत्राश्चान्ये च पार्थिवाः। ते हिंसन्तीव सङ्ग्रामे समासाद्येतरेतरम्
तेषु कालपरीतेषु विनश्यत्स्वेव भारत । कालपर्यायमाहाय मा स्म शोके मनः कृथा