शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्रथः । एते पश्चादनुगता धार्तराष्ट्रपुरोगमाः
ते समेत्य यथान्यायं धार्तराष्ट्रा महाबलाः। कुरुक्षेत्रस्य पश्चार्धे व्यवातिष्ठन्त दंशिताः
दुर्योधनस्तु शिबिरं कारयामास भारत । यथैव हास्तिनपुरं द्वितीयं समलंकृतम्
न विशेषं विजानन्ति पुरस्य शिबिरस्य वा । कुशला अपि राजेन्द्र नरा नगरवासिनः
तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः । कारयामास कौरव्यः शतशोऽथ सहस्रशः
पञ्चयोजनमुत्सृज्य माण्डलं तद्रणाजिरम् । सेनानिवेशास्ते राजन्नाविशञ्छतसङ्घशः
तत्र ते पृथिवीपाला यथोत्साहं यथाबलम् । विविशुः शिबिराण्यत्र द्रव्यवन्ति सहस्रशः
तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम् । व्यादिदेश स बाह्यानां भक्ष्यभोज्यमनुत्तमम्
सनागाश्वमनुण्याणां ये च शिल्पोपजीविनः । ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः
वणिजो गणिकाश्चारा ये चैव प्रेक्षका जनाः । सर्वांस्तन्कौरवो राजा विधिवत्प्रत्यवैक्षत
तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः। धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत
चेदिकाशिकरूशानां नेतारं दृढविक्रमम् । सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत्
विराटं द्रुपदं चैव युयुधानं शिखण्डिनम् । पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ
ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः। आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः
अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव । अथ सैन्यं यथायोगं पूजयित्वा नरर्षभः
दिदेश तान्यनीकानि प्रयाणाय महीपतिः। तेषां युधिष्ठिरो राजा ससैन्यानां महात्मनाम्
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् । स गजाश्वमनुष्याणां ये च शिल्पोपजीविनः
अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः । धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः
भीमं च युयुधानं च पाण्डवं च धनंजयम्। द्वितीयं प्रेषयामास बलस्कन्धं युधिष्टिरः
भाण्डं समारोपयतां चरतां संप्रधावताम् । हृष्टानां तत्र योधानां शब्दो दिवमिवास्पशत्
स्वयमेव ततः पश्चाद्विराटद्रपदान्वितः। अथापरैर्महीपालैः सह प्रायान्महीपतिः
भीमधन्वायती सेना धृष्टद्युम्नेन पालिता। गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत
ततः पुनरनीकानि न्ययोजयत बुद्धिमान्। मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिश्चयम्
द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः । नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान्
दश चाश्वसहस्राणि द्विसहस्त्राणि दन्तिनाम् । अयुतं च पदातीनां रथाः पञ्चशतं तथा
भीमसेनस्य दुर्धर्षं प्रथमं प्रादिशद्बलम् । मध्यमे च विराटं च जयत्सेनं च पाण्डवः
महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ । वीर्यवन्तौ महात्मानौ युधामन्यूत्तमौजसौ
अन्वयातां तदा मध्ये वासुदेवधनञ्जयौ । `तौ दृष्ट्वा पृथिवीपाला नष्टमित्येव मेनिरे। अन्तरिक्षगताः सर्वे देवाः सेन्द्रपुरोगमाः
बभूवुरतिसंरब्धाः कृतप्रहरणा नराः। तेषां विंशतिसाहस्रा हयाः शूरैरधिष्ठिताः । पञ्च नागसहस्राणि रथवंशाश्च सर्वशः
पदातयश्च ये शूराः कार्मुकासिगदाधराः । सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः