क्रोधाद्यं पुरुषं पश्येस्तथा शक्रसमद्युते। स क्षिप्रं नभवेद्व्यक्तमिति त्वां वेद्मि कौरव
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः। दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति
आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः। गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः
सर्वे ब्रह्मविदः शूराः सर्वे सुचरितव्रताः । सर्वे कामकृतश्चैव सर्वे चाहवलक्षणाः
आहवेषु पराँल्लोकाञ्जिगीषन्तो महाबलाः । एकाग्रमनसः सर्वे श्रद्दधानाः परस्परम्
विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह । प्रययुः सर्व एवैते भारद्वाजपुरोगमाः
अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः। दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ने नृपाः
गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः । शकाः किराता यवनाः शिबयोऽथ वसातयः
स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम् । एते महारथाः सर्वे द्वितीये निर्ययुर्बले
कृतवार्मा सहानीकस्त्रिगर्तश्च महारथः । दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः
शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्रथः । एते पश्चादनुगता धार्तराष्ट्रपुरोगमाः
ते समेत्य यथान्यायं धार्तराष्ट्रा महाबलाः। कुरुक्षेत्रस्य पश्चार्धे व्यवातिष्ठन्त दंशिताः
दुर्योधनस्तु शिबिरं कारयामास भारत । यथैव हास्तिनपुरं द्वितीयं समलंकृतम्
न विशेषं विजानन्ति पुरस्य शिबिरस्य वा । कुशला अपि राजेन्द्र नरा नगरवासिनः
तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः । कारयामास कौरव्यः शतशोऽथ सहस्रशः
पञ्चयोजनमुत्सृज्य माण्डलं तद्रणाजिरम् । सेनानिवेशास्ते राजन्नाविशञ्छतसङ्घशः
तत्र ते पृथिवीपाला यथोत्साहं यथाबलम् । विविशुः शिबिराण्यत्र द्रव्यवन्ति सहस्रशः
तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम् । व्यादिदेश स बाह्यानां भक्ष्यभोज्यमनुत्तमम्
सनागाश्वमनुण्याणां ये च शिल्पोपजीविनः । ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः
वणिजो गणिकाश्चारा ये चैव प्रेक्षका जनाः । सर्वांस्तन्कौरवो राजा विधिवत्प्रत्यवैक्षत
तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः। धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत
चेदिकाशिकरूशानां नेतारं दृढविक्रमम् । सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत्
विराटं द्रुपदं चैव युयुधानं शिखण्डिनम् । पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ
ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः। आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः
अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव । अथ सैन्यं यथायोगं पूजयित्वा नरर्षभः
दिदेश तान्यनीकानि प्रयाणाय महीपतिः। तेषां युधिष्ठिरो राजा ससैन्यानां महात्मनाम्
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् । स गजाश्वमनुष्याणां ये च शिल्पोपजीविनः
अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः । धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः
भीमं च युयुधानं च पाण्डवं च धनंजयम्। द्वितीयं प्रेषयामास बलस्कन्धं युधिष्टिरः
भाण्डं समारोपयतां चरतां संप्रधावताम् । हृष्टानां तत्र योधानां शब्दो दिवमिवास्पशत्