धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम। ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम्
दुर्योधनः किलापृच्छदापगेयं महाव्रतम् । केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो
मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः। तावता चापि कालेन द्रोणोपि प्रतिजज्ञिवान्
गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम् । द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित्
तथा दिव्यास्त्रवित्कर्णः संपृष्टः कुरुसंसदि । पञ्चभिर्दिवसैर्हन्तुं ससैन्यं प्रतिजज्ञिवान्
तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः। कालेन कियता शत्रून्क्षपयेरिति फाल्गुन
एवमुक्तो गुडाकेशः पार्थिवेन धनञ्जयः । वासुदेवं समीक्ष्येदं वचनं प्रत्यभाषत
सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः । असंशयं महाराज हन्युरेव न संशयः
अपैतु ते मनस्तापो यथा सत्यं ब्रवीम्यहम् । हन्यामेकरथेनैव वासुदेवसहायवान्
सामरानपि लोकांस्त्रीन्सर्वान्स्थावरजङ्गमान् । भूतं भव्यं भविष्यं च निमेषादिति मे मतिः
यावदिच्छेद्धरिरयं तावदस्ति न चान्यथा।' यत्तद्धोरं पशुपतिः प्रादादस्त्रं महन्मम। कैराते द्वन्द्वयुद्धे तु तदिदं मयि वर्तते
यद्युगान्ते पशुपतिः सर्वभूतानि संहरन् । प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते
तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः । न च द्रोणसुतो राजन्कुत एव तु सूतजः
न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम् । आर्जवेनैव युद्धेन विजेष्यामो वयं परान्
तथेमे पुरुषव्याघ्राः सहायास्तव पार्थिव । सर्वे दिव्यास्त्रविद्वांसः सर्वे युद्धाभिकाङ्क्षिणः
वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः । निहन्युः समरे सेनां देवानामपि पाण्डव
शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः । भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ
विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि। शङ्खश्चैव महाबाहुर्हैडिम्बश्च महाबलः
पुत्रोऽस्याञ्जनपर्वा तु महाबलपराक्रमः । शैनेयश्च महाबाहुः सहायो रणकेविदः
अभिमन्युश्च बलवान्द्रौपद्याः पञ्च चात्मजाः । स्वयं चापि समर्थोसि त्रेलोक्योत्सादनेपि च
क्रोधाद्यं पुरुषं पश्येस्तथा शक्रसमद्युते। स क्षिप्रं नभवेद्व्यक्तमिति त्वां वेद्मि कौरव
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः। दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति
आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः। गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः
सर्वे ब्रह्मविदः शूराः सर्वे सुचरितव्रताः । सर्वे कामकृतश्चैव सर्वे चाहवलक्षणाः
आहवेषु पराँल्लोकाञ्जिगीषन्तो महाबलाः । एकाग्रमनसः सर्वे श्रद्दधानाः परस्परम्
विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह । प्रययुः सर्व एवैते भारद्वाजपुरोगमाः
अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः। दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ने नृपाः
गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः । शकाः किराता यवनाः शिबयोऽथ वसातयः
स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम् । एते महारथाः सर्वे द्वितीये निर्ययुर्बले
कृतवार्मा सहानीकस्त्रिगर्तश्च महारथः । दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः