अप्रधृष्यमनावार्यमुद्धूतमिव सागरम् । सेनासागरमक्षोभ्यमपि देवार्महाहवे
केन कालेन गाङ्गेय क्षपयेथा महाद्युते । आचार्यो वा महेष्वासः कृपो वाऽऽशु महाबलः
कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः । दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम
एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे। हृदि नित्यं महाबाहो वक्तुमर्हसि तन्मम
अनुरूपं कुरुश्रेष्ठ त्वय्येतत्पृथिवीपते। बलाबलममित्राणां तेषां यदिह पृच्छसि
श्रृणु राजन्मम रणे या शक्तिः परमा भवेत् । शस्त्रवीर्ये रणे यच्च भुजयोश्च महाभुज
आर्जवेनैव युद्धेन योद्धव्य इतरो जनः। मायायुद्धेन मायावी इत्येतद्धर्मनिश्चयः
हन्यामहं महाभाग पाण्डवानामनीकिनीम् । दिवसे दिवसे कृत्वा भागान्भागान्निजान्मम
योधानां दशसाहस्रं कृत्वा भागं महाद्युते । सहस्रं रथिनामेकमेष भागो मतो मम
अनेनाहं विधानेन सन्नद्धः सततोत्थितः । क्षपयेयं महत्सैन्यं कालेनानेन भारत
मुञ्चेयं यदि वास्त्राणि महान्ति समरे स्थितः । शतसाहस्रघातीनि हन्यां मासेन भारत
श्रुत्वा भीष्मस्य तद्वाक्यं राजा दुर्योधनस्ततः । पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम्
आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान् । निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव
स्थविरोऽस्मि महाबाहो मन्दप्राणविचेष्टितः । शस्त्राग्निना निर्दहेयं पाण्डवानामनीकिनीम्
यथा भीष्मः शान्तनवो मासेनेति मतिर्मम । एषा मे परमा शक्तिरेतन्मे परमं बलम्
द्वाभ्यामेव तु मासाभ्यां कृपः शारद्वतोऽब्रवीत्। द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम्। कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित्
तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः। जहास सस्वनं हासं वाक्यं चेदमुवाच ह
न हि यावद्रणे पार्थं बाणशङ्खधनुर्धरम्। वासुदेवसमायुक्तं रथेनायान्तमाहवे
समागच्छसि राधेय तेनैवमभिमन्यसे । शक्यमेवं च भूयश्च त्वया वक्तुं यथेष्टतः
एतच्छ्रुत्वा तु कौन्तेयः सर्वान्भ्रातॄनुपह्वरे। आहूय भरतश्रेष्ठ इदं वचनमब्रवीत्
धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम। ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम्
दुर्योधनः किलापृच्छदापगेयं महाव्रतम् । केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो
मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः। तावता चापि कालेन द्रोणोपि प्रतिजज्ञिवान्
गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम् । द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित्
तथा दिव्यास्त्रवित्कर्णः संपृष्टः कुरुसंसदि । पञ्चभिर्दिवसैर्हन्तुं ससैन्यं प्रतिजज्ञिवान्
तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः। कालेन कियता शत्रून्क्षपयेरिति फाल्गुन
एवमुक्तो गुडाकेशः पार्थिवेन धनञ्जयः । वासुदेवं समीक्ष्येदं वचनं प्रत्यभाषत
सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः । असंशयं महाराज हन्युरेव न संशयः
अपैतु ते मनस्तापो यथा सत्यं ब्रवीम्यहम् । हन्यामेकरथेनैव वासुदेवसहायवान्
सामरानपि लोकांस्त्रीन्सर्वान्स्थावरजङ्गमान् । भूतं भव्यं भविष्यं च निमेषादिति मे मतिः