आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम् । सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने
शप्तो वैश्रवणेनाहं त्वत्कृते पार्थिवात्मज । गच्छेदानीं यथाकामं चर लोकान्यथासुखम्
दिष्टमेतत्पुरा मन्ये न शक्यमतिवर्तितुम् । गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम्
एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत । प्रत्याजगाम नगरं हर्वेण महतावृतः
पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः । द्विजातीन्देवताश्चैव चैत्यानथ चतुष्पथान्
द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना । मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः
शिष्यार्थं प्रददौ चाथ द्रोणाय कुरुपुङ्गव । शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा
प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः। शिखण्डी सह युष्माभिर्धृष्टद्युम्नश्च पार्षतः
मम त्वेतच्चरास्तात यथावत्प्रत्यवेदयन् । जडान्धबधिराकारा ये मुक्ता द्रपदे मया
एवमेष महाराज स्त्री पुमान्द्रुपदात्मजः । स संभूतः कुरुश्रेष्ठ शिखण्डी रथसत्तमः
ज्येष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता । द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ
नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम् । मुहूर्तमपि पश्येयं प्रहरेयं न चाप्युत
व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम् । स्त्रियां स्त्रीपूर्वके चैव स्त्रीनाम्नि स्त्रीसरूपिणि
न मुञ्चेयमहं बाणमिति कौरवनन्दन । न हन्यामहमेतेन कारणेन शिखण्डिनम्
एतत्तत्त्वमहं वेद जन्म तात शिखण्डिनः । ततो नैनं हनिष्यामि समरेष्वाततायिनम्
यदि भीष्मः स्त्रियं हन्यात्सन्तः कुर्युर्विगर्हणम् । नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम्
एतच्छ्रुत्वा तु करव्यो राजा दुर्योधनस्तदा। मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत
प्रभातायां तु शर्वर्यां पुनरेव सुतस्तव। मध्ये सर्वस्य सैन्यस्य पितामहमपृच्छत
पाण्डवेयस्य गाङ्गेय यदेतत्सैन्यमुद्यतम्। प्रभूतनरनागाश्वं महारथसमाकुलम्
भीमार्जुनप्रभृतिभिर्महेष्वासैर्महाबलैः । लोकपालसमैर्गुप्तं धृष्टद्युम्नपुरोगमैः
अप्रधृष्यमनावार्यमुद्धूतमिव सागरम् । सेनासागरमक्षोभ्यमपि देवार्महाहवे
केन कालेन गाङ्गेय क्षपयेथा महाद्युते । आचार्यो वा महेष्वासः कृपो वाऽऽशु महाबलः
कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः । दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम
एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे। हृदि नित्यं महाबाहो वक्तुमर्हसि तन्मम
अनुरूपं कुरुश्रेष्ठ त्वय्येतत्पृथिवीपते। बलाबलममित्राणां तेषां यदिह पृच्छसि
श्रृणु राजन्मम रणे या शक्तिः परमा भवेत् । शस्त्रवीर्ये रणे यच्च भुजयोश्च महाभुज
आर्जवेनैव युद्धेन योद्धव्य इतरो जनः। मायायुद्धेन मायावी इत्येतद्धर्मनिश्चयः
हन्यामहं महाभाग पाण्डवानामनीकिनीम् । दिवसे दिवसे कृत्वा भागान्भागान्निजान्मम
योधानां दशसाहस्रं कृत्वा भागं महाद्युते । सहस्रं रथिनामेकमेष भागो मतो मम
अनेनाहं विधानेन सन्नद्धः सततोत्थितः । क्षपयेयं महत्सैन्यं कालेनानेन भारत