स नद्गृहस्योपरि वतमान आलोकयामास धनाधिगोप्ता। स्थूणस्य यक्षस्य विवेश वेश्म स्वलंकृतं माल्यगुणैर्विचित्रैः
लाचैश्च गन्धैश्च तथा वितानै- रभ्यर्चितं धृनधृपितं च। ध्वजैः पताकाभिरलंकृतं च भक्ष्यान्नपेयामिपदत्तमोदम्
तत्स्थानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम्। मणिरत्नसुवर्णानां मालाभिः परिपूरितम्
नानाकुसूमगन्धाढ्यं सिक्तसंमृष्टशोभितम् । अथाब्रवीद्यक्षपतिस्तान्यक्षाननुगांस्तदा
स्वलंकृतमिदं वेश्म स्थूणस्यामितविक्रमाः । नोपसर्पति मां चैव कस्मादद्य स मन्दधीः
यस्माज्जानन्स मन्दात्मा मामसौ नोपसर्पति । तस्मात्तस्मै महादण्डो धार्यः स्यादिति मे मतिः
द्रुपदस्य सुता राजन्राज्ञो जाता शिखण्डिनी। तस्या निमित्ते कस्मिंश्चित्प्रादात्पुरुषलक्षणम्
अग्रहील्लक्षणं स्त्रीणां स्त्रीभूता तिष्ठते गृहे। नोपसर्पति तेनासौ सव्रीडः स्त्रीसरूपवान्
एतस्मात्कारणाद्राजन्स्थूणो न त्वाऽद्य सर्पति। श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम्
आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत् । कर्तास्मि निग्रहं तस्य प्रत्युवाच पुनः पुनः
सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते। स्त्रीमरूपो महाराज तस्थौ व्रीडासमन्वितः
तं शशापाथ संक्रुद्धो धनदः कुरूनन्दन । एवमेव भवत्वद्य स्त्रीत्वं पापस्य गुह्यकाः
ततोऽब्रवीद्यक्षपतिर्महात्मा यस्माददास्त्ववमन्येह यक्षान्। शिखण्डिनो लक्षणं पापबुद्धे स्त्रीलक्षणं चाग्रहीः पापकर्मन्
अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत्त्वया कृतम्। तस्मादद्य प्रभृत्येव स्त्री त्वं सा पुरुषस्तथा
ततः प्रसादयामासुर्यक्षा वैश्रवणं किल। स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः
ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः । सर्वान्यक्षगणांस्तात शापस्यान्तचिकीर्षया
शिखण्डिनि हते यक्षाः स्वं रूपं प्रतिपत्स्यते । स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः
इत्युक्त्वा भगवान्देवो यक्षराजः सुपूजितः । प्रययौ सहितः सर्वैर्निमेषान्तरचारिभिः
स्थूणस्तु शापं संप्राप्य तत्रैव न्यवसत्तदा। समये चागमूत्तूर्णं शिखण्डी तं क्षपाचरम्
सोऽभिगम्याब्रवीद्वाक्यं प्राप्तोऽस्मि भगवन्निति। तमब्रवीत्ततः स्थूणः प्रीतोऽस्मीति पुनः पुनः
आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम् । सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने
शप्तो वैश्रवणेनाहं त्वत्कृते पार्थिवात्मज । गच्छेदानीं यथाकामं चर लोकान्यथासुखम्
दिष्टमेतत्पुरा मन्ये न शक्यमतिवर्तितुम् । गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम्
एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत । प्रत्याजगाम नगरं हर्वेण महतावृतः
पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः । द्विजातीन्देवताश्चैव चैत्यानथ चतुष्पथान्
द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना । मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः
शिष्यार्थं प्रददौ चाथ द्रोणाय कुरुपुङ्गव । शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा
प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः। शिखण्डी सह युष्माभिर्धृष्टद्युम्नश्च पार्षतः
मम त्वेतच्चरास्तात यथावत्प्रत्यवेदयन् । जडान्धबधिराकारा ये मुक्ता द्रपदे मया
एवमेष महाराज स्त्री पुमान्द्रुपदात्मजः । स संभूतः कुरुश्रेष्ठ शिखण्डी रथसत्तमः