पुंसा सह समायोगो न स धर्मोपघातकः। न भयं विद्यते भद्रे मा शुचः सुकृतं कृतम्
क्षत्रियस्य तु गान्धर्वो विवाहः श्रेष्ठ उच्यते। सकामायाः सकामेन निमन्त्रः श्रेष्ठ उच्यते
किं पुनर्विधिवत्कृत्वा सुप्रजस्त्वमवाप्स्यसि।' धर्मात्मा च महात्मा च दुष्यन्तः पुरुषोत्तमः
अभ्यागच्छत्पतिर्यस्त्वां भजमानां शकुन्तले। महात्मा जनिता लोके पुत्रस्तव महायशाः
स च सर्वां समुद्रान्तां कृत्स्नां भोक्ष्यति मेदिनीम्। परं चाभिप्रयातस्य चक्रं तस्य महात्मनः
भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः। प्रसन्न एव तस्याहं त्वकृते वरवर्णिनि
ऋतवो बहवस्ते वै गता व्यर्थाः शुचिस्मिते। सार्थकं सांप्रतं ह्येतन्न च पाप्मास्ति तेऽनघे। गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम्
मया पतिर्वृतो योऽसौ दुष्यन्तः पुरुषोत्तमः। मम चैव पतिर्दृष्टो देवतानां समक्षतः। तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि
इत्येवमुक्त्वा मनसा प्रणिधाय मनस्विनी। ततो धर्मिष्ठतां वव्रे राज्ये चास्खलनं तथा
शकुन्तलां पौरवाणां दुष्यन्तहितकाम्यया। `एवमस्त्विति तां प्राह कण्वो धर्मभृतां वरः
पस्पर्श चापि पाणिभ्यां सुतां श्रीमिवरूपिणीम्
अद्यप्रभृति देवी त्वं दुष्यन्तस्य महात्मनः। पतिव्रतानां या वृत्तिस्तां वृत्तिमनुपालय
इत्येवमुक्त्वा धर्मात्मा तां विशुद्ध्यर्थमस्पृशत्। स्पृष्टमात्रे शरीरे तु परं हर्षमवाप सा
प्रतिज्ञाय च दुष्यन्ते प्रतियाते दिने दिने। `गर्भश्च ववृधे तस्यां राजपुत्र्यां महात्मनः
शकुन्तला चिन्तयन्ती राजानं कार्यगौरवात्। दिवारात्रमनिद्रैव स्नानभोजनवर्जिता
राजप्रेषणिका विप्राश्चतुरङ्गबलान्विताः। अद्य श्वो वा परश्वो वा समायान्तीति निस्चिता
दिनान्पक्षानृतून्मासानयनानि च सर्वशः। गण्यमानानि वर्षाणि व्यतीयुस्त्रीणि भारत
त्रिषु वर्षेषु पूर्णेषु ऋषेर्वचनगौरवात्। ऋषिपत्न्यः सुबहुशो हेतुमद्वाक्यमब्रुवन्
शृणु भद्रे लोकवृत्तं श्रुत्वा यद्रोचते तव। तत्कुरुष्व हितं देवि नावमान्यं गुरोर्वचः
देवानां दैवतं विष्णुर्विप्राणामग्निर्ब्रह्म च। नारीणां दैवतं भर्ता लोकानां ब्राह्मणो गुरुः
सूतिकाले प्रसूष्वेति भगवांस्ते पिताऽब्रवीत्। करिष्यामीति कर्तव्यं तदा ते सुकृतं भवेत्
पत्नीनां वचनं श्रुत्वा साधु साध्वित्यचिन्तयत्।' गर्भं सुषाव वामोरूः कुमारममितौजसम्
त्रिषु वर्षेषु पूर्णेषु प्राजायत शकुन्तला। रूपौदार्यगुणोपेतं दौष्यन्तिं जनमेजय
जाते' तस्मिन्नन्तरिक्षात्पुष्पवृष्टिः पपात ह। देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः
गायद्भिर्मधुरं तत्र देवैः शक्रोऽभ्युवाच ह। शकुन्तले तव सुतश्चक्रवर्ती भविष्यति
बलं तेजश्च रूपं च न समं भुवि केनचित्। आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः
अनेकारपि साहस्रै राजसूयादिभिर्मखैः। स्वार्थं ब्राह्मणसात्कृत्वा दक्षिणाममितां ददत्
देवतानां वचः श्रुत्वा कण्वाश्रमनिवासिनः। सभाजयन्तः कण्वस्य सुतां सर्वे महर्षयः
शकुन्तला च तच्छ्रुत्वा परं हर्षमवाप सा। द्विजानाहूय मुनिभिः सत्कृत्य च महायशाः
जातकर्मादिसंस्कारं कण्वः पुण्यवतां वरः। तस्याथ कारयामास वर्धमानस्य चासकृत्