प्रभुः संकल्पसिद्धोऽस्मि कामचारी विहंगमः । मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलम्
स्त्रीलिङ्गं धारयिष्यामि तवेदं पार्थिवात्मजे। सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव
प्रतिदास्यामि भगवन्पुलिङ्गं तव सुव्रत। किंचित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर
प्रतियाते दशार्णे तु पार्थिवे हेमवर्मणि । कन्यैव हि भविष्यामि पुरुषस्त्वं भविष्यसि
इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप । अन्योन्यस्यानभिद्रोहे तौ संक्रामयतां ततः
स्त्रीलिङ्गं धारयामास स्थूणो यक्षोऽथ भारत । यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत
ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव । विवेश नगरं हृष्टः पितरं च समासदत्
यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य तत्। `मातुश्च रहिते राजन्प्रसादं यक्षजं तदा।' द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम्
सभार्यस्तच्च सस्मार महेश्वरवचस्तदा । ततः संप्रेषयामास दशार्णाधिपतेर्नृपः
पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति । अथ दाशार्णको राजा सहसाभ्यागमत्तदा
पाञ्चालराजं द्रुपदं दुःखशोकसमन्वितः। ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्ततः
प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम्। ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम्
यन्मे कन्यां स्वकन्यार्थे वृतवानसि दुर्मते। फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः
एवमुक्तश्च तेनासौ ब्राह्मणो राजसत्तम। दूतः प्रयातो नगरं दाशार्णनृपचोदितः
ततः आसादयामास पुरोधा द्रुपदं पुरे। तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम्
प्रापयामास राजेन्द्र सह तेन शिखण्डिना । तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह
यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा । यत्तेऽहमधमाचार दुहित्राऽस्म्यभिवञ्चितः
तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते । देहि युद्धं नरपते ममाद्य रणमूर्धनि
उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम् । तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः
दशार्णपतिना चोक्तो मन्त्रिमध्ये पुरोधसा। अभवद्भरतश्रेष्ठ द्रुपदः प्रणयानतः
यदाह मां भवान्ब्रह्मन्संबन्धिवचनाद्वचः । अस्योत्तरं प्रतिवचो दूतो राज्ञे वदिष्यति
ततः संप्रेषयामास द्रुपदोऽपि महात्मने । हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम्
तमागम्य तु राजानं दशार्णाधिपतिं तदा। तद्वाक्यमाददे राजन्यदुक्तं द्रुपदेन ह
आगमः क्रियतां व्यक्तः कुमारोऽयं सुतो मम । मिथ्यैतदुक्तं केनापि तदश्रद्धेयमित्युत
ततः स राजा द्रुपदस्य श्रुत्वा। विमर्शयुक्तो युवतीर्वरिष्ठाः। संप्रेषयामास सुचारुरूपाः शिखण्डिनं स्त्रीपुमान्वेति वेत्तुम्
ताः प्रेषितास्तत्त्वभावं विदित्वा प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम् । शिखण्डिनं पुरुषं कौरवेन्द्र दाशार्णराजाय महानुभावम्
ततः कृत्वा तु राजा स आगमं प्रीतिमानथ। संबन्धिना समागम्य हृष्टो वासमुवास ह
शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः । हस्तिनोऽश्वांश्च गाश्चैव दासीर्बहुशतास्तथा । पूजितश्च प्रतिययौ निर्भर्त्स्य तनयां किल
विनीतकिल्विषे प्रीते हेमवर्मणि पार्थिवे । प्रतियाते दशार्णे तु हृष्टरूपा शिखण्डिनी
कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः । लोकयात्रां प्रकुर्वाणः स्थूणस्यागान्निवेशनम्