अशक्ययिति सा यक्षं पुनः पुनरुवाच ह। करिष्यामीति वै क्षिप्रं प्रत्युवाचाथ गुह्यकः
धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे। अदेयमपि दास्यादि ब्रूहि यत्ते विवक्षितम्
ततः शिखण्डी तत्सर्वमखिलेन न्यवेदयत्। तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत
आपन्नो मे पिता यक्ष न चिरान्नाशमेष्यति। अभियास्यति सक्रोधो दशार्णाधिपतिर्हि तम्
मन्निमित्तं महोत्साहः सहेमकवचो नृपः । तस्माद्रक्षस्व मां यक्ष मातरं पितरं च मे
प्रतिज्ञातो हि भवता दुःखप्रतिशमो मम । भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः
यावदेव स राजा वै नोपयाति पुरं मम । तावदेव महायक्ष प्रसादं कुरु गुह्यक
शिखण्डिवाक्यं श्रुत्वाऽथ स यक्षो भरतर्षभ । प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः
भवितव्यं तथा तद्धि मम दुःखाय कौरव। भद्रे कामं करिष्यामि समयं तु निबोध मे
स्वं ते पुंस्त्वं प्रदास्यामि स्त्रीत्वं धारयिताऽस्मि ते' किंचित्कालं तु ते दास्ये पुल्लिङ्गं स्वमिदं तव। आगन्तव्यं त्वया काले सत्यं चैव वदस्व मे
प्रभुः संकल्पसिद्धोऽस्मि कामचारी विहंगमः । मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलम्
स्त्रीलिङ्गं धारयिष्यामि तवेदं पार्थिवात्मजे। सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव
प्रतिदास्यामि भगवन्पुलिङ्गं तव सुव्रत। किंचित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर
प्रतियाते दशार्णे तु पार्थिवे हेमवर्मणि । कन्यैव हि भविष्यामि पुरुषस्त्वं भविष्यसि
इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप । अन्योन्यस्यानभिद्रोहे तौ संक्रामयतां ततः
स्त्रीलिङ्गं धारयामास स्थूणो यक्षोऽथ भारत । यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत
ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव । विवेश नगरं हृष्टः पितरं च समासदत्
यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य तत्। `मातुश्च रहिते राजन्प्रसादं यक्षजं तदा।' द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम्
सभार्यस्तच्च सस्मार महेश्वरवचस्तदा । ततः संप्रेषयामास दशार्णाधिपतेर्नृपः
पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति । अथ दाशार्णको राजा सहसाभ्यागमत्तदा
पाञ्चालराजं द्रुपदं दुःखशोकसमन्वितः। ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्ततः
प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम्। ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम्
यन्मे कन्यां स्वकन्यार्थे वृतवानसि दुर्मते। फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः
एवमुक्तश्च तेनासौ ब्राह्मणो राजसत्तम। दूतः प्रयातो नगरं दाशार्णनृपचोदितः
ततः आसादयामास पुरोधा द्रुपदं पुरे। तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम्
प्रापयामास राजेन्द्र सह तेन शिखण्डिना । तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह
यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा । यत्तेऽहमधमाचार दुहित्राऽस्म्यभिवञ्चितः
तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते । देहि युद्धं नरपते ममाद्य रणमूर्धनि
उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम् । तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः
दशार्णपतिना चोक्तो मन्त्रिमध्ये पुरोधसा। अभवद्भरतश्रेष्ठ द्रुपदः प्रणयानतः