ततः संमन्त्रयामास मन्त्रिभिः स महीपतिः । हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति
तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम् । तथ्यं भवति चेदेतत्कन्या राजञ्शिखण्डिनी
बद्ध्वा पाञ्चालराजानमानयिष्यामहे गृहम् । अन्यं राजानमाधाय पाञ्चालेषु नरेश्वरम्
घातयिष्याम नृपतिं पाञ्चालं सशिखण्डिनम्
स तदा द्रुतमाज्ञाय पुनर्दूतान्नराधिपः। प्रास्थापयत्पार्षतया निहन्मीति स्थिरो भव
स हि प्रकृत्या वै भीतः किल्बिषी च नराधिपः । भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः
विसृज्य दूतान्दाशार्णे द्रुपदः शोकमूर्च्छितः । समेत्य भार्यां रहिते वाक्यमाह नराधिपः
भयेन महताऽऽविष्टो हृदि शोकेन चाहतः । पाञ्चालराजो दयितां मातरं वै शिखण्डिनः
अभियास्यति मां कोपात्संबन्धी सुमहाबलः । हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम्
किमिदानीं करिष्यावो मूढौ कन्यामिमां प्रति। शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः
इति संचिन्त्य यत्नेन समित्रः सबलानुगः । वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति
किमत्र तथ्यं सुश्रोणि मिथ्या किं ब्रूहि शोभने । श्रुत्वा त्वत्तः शुभं वाक्यं संविधास्याम्यहं तथा
अहं हि संशयप्राप्तो बाला चेयं शिखण्डिनी । त्वं च राज्ञि महत्कृच्छ्रं संप्राप्ता वरवर्णिनि
सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः। तथा विदध्यां सुश्रोणि कृत्यमाशु शुचिस्मिते
शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः । कृपयाहं वरारोहे वञ्चितः पुत्रधर्मतः
मया दाशार्णको राजा वञ्चितः स महीपतिः । तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम्
जनाता ह नरेन्द्रेण ख्यापनार्थं परस्य वै । प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम्
ततः शिखण्डिनो माता यथातत्त्वं नराधिप। आचचक्षे महाबाहो भर्त्र कन्यां शिखण्डिनीम्
अपुत्रया मया राजन्सपत्नीनां भयादिदम् । कन्या शिखण्डिनी जाता पुरुषो वै निवेदिता
त्वया चैव नरश्रेष्ठ तन्मे प्रीत्याऽनुमोदितम् । पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ
भार्या चोढा त्वया राजन्दशार्णाधिपतेः सुता। मया च प्रत्यभिहितं देववाक्यार्थदर्शनात्। कन्या भूत्वा पुमान्भावीत्येवं चैतदुपेक्षितम्
एतच्छ्रुत्वा द्रुपदो यज्ञसेनः सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य। मन्त्रं राजा मन्त्रयामास राजन् यथायुक्तं रक्षणे वै प्रजानाम्
संबन्धकं चैव समर्थ्य तस्मिन् दाशार्णके वै नृपतौ नरेन्द्र। स्वयं कृत्वा विप्रलम्भं यथाव- न्मन्त्र्यैकाग्रो निश्चयं वै जगाम
स्वभावगुप्तं नगरमापत्काले तु भारत। गोपयामास राजेन्द्र सर्वतः समलङ्कृतम्
आर्तिं च परमां राजा जगाम सह भार्यया। दशार्णपतिना सार्धं विरोधे भरतर्षभ
कथं संबन्धिना सार्धं न मे स्याद्विग्रहो महान्। इति संचिन्त्य मनसा देवतामर्चयत्तदा
तं तु दृष्ट्वा तदा राजन्देवी देवपरं तदा। अर्चां प्रयुञ्जानमथो भार्या वचनमब्रवीत्
देवानां प्रतिपत्तिश्च सत्यं साधुमता सताम् । किमु दुःस्वार्णवं प्राप्य तस्मादर्चयतां गुरून्
दैवतानि च सर्वाणि पूज्यनां भूरिदक्षिणम् । अग्नयश्चापि हृयन्तां दाशार्णप्रतिषेधने
अयुद्धेन निवृत्तिं च मनसा चिन्तय प्रभो। देवतानां प्रसादेन सर्वमेतद्भविष्यति