स च राजा दशार्णेषु महानासीत्सुदुर्जयः। हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः
कृते विवाहे तु तदा सा कन्या राजसत्तम। यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी
कृतदारः शिखण्डी च काम्पिल्यं पुनरागमत्। न च सा वेद तां कन्यां कंचित्कालं स्त्रियं किल। यदा त्वेनामजानात्सा स्त्रियमेव नृपात्मजा
धात्रीणां च सखीनां च व्रीडयाना न्यवेदयत् । कन्यां पाञ्चालराजस्य सुतां तां वै शिखण्डिनीम्
ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा। जग्मुरार्ति परां प्रेष्याः प्रेषयामासुरेव च
ततो दशार्णाधिपतेः प्रेष्याः सर्वा न्यवेदयन् । विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः
शिखण्ड्यपि महाराज पुंवद्राजकुले तदा। विजहार म्रुदा युक्तः स्त्रीत्वं नैवातिरोचयन्
ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ । हिरण्यवर्मा राजेन्द्र रोषादर्तिं जगाम ह
ततो दाशार्णको राजा तीव्रकोपसमन्वितः । दूतं प्रस्थापयामास द्रुपदस्य निवेशनम्
ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः। एक एकान्तसुत्सार्य रहो वचनमब्रवीत्
दाशार्णराजो राजंस्त्वामिदं वचनमब्रवीत् । अभिष्गात्प्रकुपितो विप्रलब्धस्त्वयाऽनघ
अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव। यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि
तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते । एष त्वं सजनामात्यमुद्धरामि स्थिरो भव
अवमत्य च वीर्यं मे कुलं चारित्रमेव च । विप्रलम्भस्त्वयापूर्वो मनुष्येषु प्रवर्तितः
कुरु सर्वाणि कार्याणि भुङ्क्ष्व कभोगाननुत्तमान्। अभियास्यामि शीघ्रं त्वां समुद्धर्तुं सबान्धवम्
एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप। चोरस्येव गृहीतस्य न प्रावर्तत भारती
स यत्नमकरोत्तीव्रं संबन्धिन्युनुमानने । दूतैर्मधुरसंभाषैर्न तदस्तीति संदिशन्
स राजा भूय एवाथ ज्ञात्वा तत्त्वमथागमत् । कन्येति पाञ्चालसुतां त्वरमाणो विनिर्ययौ
ततः संप्रेषकयामास मित्रांणाममितौजसाम् । दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा
ततः समुदयं कृत्वा बलानां राजसत्तमः । अभियाने मतिं चक्रे द्रुपदं प्रति भारत
ततः संमन्त्रयामास मन्त्रिभिः स महीपतिः । हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति
तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम् । तथ्यं भवति चेदेतत्कन्या राजञ्शिखण्डिनी
बद्ध्वा पाञ्चालराजानमानयिष्यामहे गृहम् । अन्यं राजानमाधाय पाञ्चालेषु नरेश्वरम्
घातयिष्याम नृपतिं पाञ्चालं सशिखण्डिनम्
स तदा द्रुतमाज्ञाय पुनर्दूतान्नराधिपः। प्रास्थापयत्पार्षतया निहन्मीति स्थिरो भव
स हि प्रकृत्या वै भीतः किल्बिषी च नराधिपः । भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः
विसृज्य दूतान्दाशार्णे द्रुपदः शोकमूर्च्छितः । समेत्य भार्यां रहिते वाक्यमाह नराधिपः
भयेन महताऽऽविष्टो हृदि शोकेन चाहतः । पाञ्चालराजो दयितां मातरं वै शिखण्डिनः
अभियास्यति मां कोपात्संबन्धी सुमहाबलः । हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम्
किमिदानीं करिष्यावो मूढौ कन्यामिमां प्रति। शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः