अभवद्दोषदर्शित्वाद्ब्रह्मचारिण्ययन्त्रिता। स तदा व्रीडितां दृष्ट्वा ऋषिस्तां प्रत्यभाषत
सव्रीडैव च दीर्घायुः पुरेव भविता न च। वृत्तं कथय रम्भोरु मा त्रासं च प्रकल्पय
ततः प्रक्षाल्य पादौ सा विश्रान्तं पुनरब्रवीत्। निधाय कामं तस्यर्षेः कन्दानि च फलानि च
ततः संवाह्य पादौ सा विश्रान्तं वेदिमध्यमा। शकुन्तला पौरवाणां दुष्यन्तं जग्मुषी पतिम्
ततः कृच्छ्रादतिशुभा सव्रीडा श्रमती तदा। सगद्गदमुवाचेदं काश्यपं सा शुचिस्मिता
राजा ताताजगामेह दुष्यन्त इलिलात्मजः। मया पतिर्वृतो योऽसौ दैवयोगादिहागतः
तस्य तात प्रसीद त्वं भर्ता मे सुमहायशाः। अतः सर्वं तु यद्वृत्तं दिव्यज्ञानेन पश्यसि
चक्षुषा स तु दिव्येन सर्वं विज्ञाय काश्यपः
ततो धर्मिष्ठतां मत्वा धर्मे चास्खलितं मनः। उवाच भगवान्प्रीतस्तद्वृत्तं सुमहातपाः
एवमेतन्मया ज्ञातं दृष्टं दिव्येन चक्षुषा। त्वयाऽद्य राजान्वयया मामनादृत्य यत्कृतम्
पुंसा सह समायोगो न स धर्मोपघातकः। न भयं विद्यते भद्रे मा शुचः सुकृतं कृतम्
क्षत्रियस्य तु गान्धर्वो विवाहः श्रेष्ठ उच्यते। सकामायाः सकामेन निमन्त्रः श्रेष्ठ उच्यते
किं पुनर्विधिवत्कृत्वा सुप्रजस्त्वमवाप्स्यसि।' धर्मात्मा च महात्मा च दुष्यन्तः पुरुषोत्तमः
अभ्यागच्छत्पतिर्यस्त्वां भजमानां शकुन्तले। महात्मा जनिता लोके पुत्रस्तव महायशाः
स च सर्वां समुद्रान्तां कृत्स्नां भोक्ष्यति मेदिनीम्। परं चाभिप्रयातस्य चक्रं तस्य महात्मनः
भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः। प्रसन्न एव तस्याहं त्वकृते वरवर्णिनि
ऋतवो बहवस्ते वै गता व्यर्थाः शुचिस्मिते। सार्थकं सांप्रतं ह्येतन्न च पाप्मास्ति तेऽनघे। गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम्
मया पतिर्वृतो योऽसौ दुष्यन्तः पुरुषोत्तमः। मम चैव पतिर्दृष्टो देवतानां समक्षतः। तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि
इत्येवमुक्त्वा मनसा प्रणिधाय मनस्विनी। ततो धर्मिष्ठतां वव्रे राज्ये चास्खलनं तथा
शकुन्तलां पौरवाणां दुष्यन्तहितकाम्यया। `एवमस्त्विति तां प्राह कण्वो धर्मभृतां वरः
पस्पर्श चापि पाणिभ्यां सुतां श्रीमिवरूपिणीम्
अद्यप्रभृति देवी त्वं दुष्यन्तस्य महात्मनः। पतिव्रतानां या वृत्तिस्तां वृत्तिमनुपालय
इत्येवमुक्त्वा धर्मात्मा तां विशुद्ध्यर्थमस्पृशत्। स्पृष्टमात्रे शरीरे तु परं हर्षमवाप सा
प्रतिज्ञाय च दुष्यन्ते प्रतियाते दिने दिने। `गर्भश्च ववृधे तस्यां राजपुत्र्यां महात्मनः
शकुन्तला चिन्तयन्ती राजानं कार्यगौरवात्। दिवारात्रमनिद्रैव स्नानभोजनवर्जिता
राजप्रेषणिका विप्राश्चतुरङ्गबलान्विताः। अद्य श्वो वा परश्वो वा समायान्तीति निस्चिता
दिनान्पक्षानृतून्मासानयनानि च सर्वशः। गण्यमानानि वर्षाणि व्यतीयुस्त्रीणि भारत
त्रिषु वर्षेषु पूर्णेषु ऋषेर्वचनगौरवात्। ऋषिपत्न्यः सुबहुशो हेतुमद्वाक्यमब्रुवन्
शृणु भद्रे लोकवृत्तं श्रुत्वा यद्रोचते तव। तत्कुरुष्व हितं देवि नावमान्यं गुरोर्वचः
देवानां दैवतं विष्णुर्विप्राणामग्निर्ब्रह्म च। नारीणां दैवतं भर्ता लोकानां ब्राह्मणो गुरुः