कथं शिखण्डी गाङ्गेय कन्यां भूत्वा पुरा तदा। पुरुषोऽभूद्युधिश्रेष्ठ तन्मे ब्रूहि पितामह
भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः। महिषी दयिता ह्यासीदपुत्रा च विशांपते
एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः। अपत्यार्थे महाराज तोषयामास शङ्करम्
अस्माद्वधार्थं निश्चित्य तपो घोरं समास्थितः। ऋते कन्यां महादेव पुत्रो मेस्यादिति ब्रुवन्
भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया । इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति
निवर्तस्व महीपाल नैतञ्जात्वन्यथा भवेत् । स तु गत्वा च नगरं भार्यामिदमुवाच ह
कृतो यत्नो महादेवस्तपसाऽऽराधितो मया । कन्या भूत्वा पुमान्भावी इति चोक्तोस्मि शंभुना
पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः । नतदन्यच्च भविता भवितव्यं हि तत्तथा
ततः सा नियता भूत्वा ऋतुकाले मनस्विनी । पत्नी द्रुपदराजस्य द्रुपदं प्रविवेश ह
लेभे गर्भं यथाकालं विधिदृष्टेन कर्मणा । पार्षतस्य महीपाल यथा मां नारदोऽब्रवीत्
ततो दधार सा देवी गर्भं राजीवलोचना । तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन
पुत्रस्नेहान्महाबाहुः मुखं पर्यचरत्तदा । सर्वानभिप्रायकृतान्भार्याऽलभत कौरव
अपुत्रस्य सतो राज्ञो द्रुपदस्य महीपतेः । यथाकालं तु सा देवी महिषी द्रुपदस्य ह
कन्यां प्रवररूपां तु प्राजायत नराधिप । अपुत्रस्य तु राज्ञः सा द्रुपदस्य मनस्विनी
ख्यापयामास राजेन्द्र पुत्रो ह्येष ममेति वै। ततः स राजा द्रुपद प्रच्छन्नाया नराधिप
पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत् । रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा
चकार सर्वयत्नेन ब्रुवणा पुत्र इत्युत । न च तां वेदक नगरे कश्चिदन्यत्र पार्षतात्
श्रद्दधानो हि तद्वाक्यं देवस्याच्युततेजसः। छादयामास तां कन्यां पुमानिति च सोब्रवीत्
जातकर्माणि सर्वाणि कारयामास पार्थिवः। पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः
अहमेकस्तु चारेण वचनान्नारदस्य च। ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा
चकार यत्नं द्रुपदः सुतायाः सर्वकर्मसु। ततो लेख्यादिषु तथा शिल्पेषु च परंतप
इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह। तस्य माता महाराज राजानं वरवर्णिनी
चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा । ततस्तां पार्षतो दृष्ट्वा कन्यां संप्राप्तयौवनाम् । स्त्रियं मत्वा ततश्चिन्तां प्रपेदे सह भार्यया
कन्या ममेयं संप्राप्ता यौवनं शोकवर्धिनी । मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः
न तन्मिथ्या महाराज भविष्यति कथंचन । त्रैलोक्यकर्ता कस्माद्धि वृथा वक्तुमिहार्हति
यदि ते रोचते राजन्वक्ष्यामि श्रृणु मे वचः। श्रुत्वेदानीं प्रपद्येथाः स्वां मतिं पृषतात्मज
क्रियतामस्य यत्नेन विधिवद्दारसंग्रहः । भविता तद्वचः सत्यमिति मे निश्चिता मतिः
ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दंपती । वरयाञ्चक्रतुः कन्यां दशार्णाधिपतेः सुताम्
ततो राजा द्रुपदो राजसिंहः सर्वान्राज्ञः कुलतः सन्निशाम्य। दाशार्णकस्य नृपतेस्तनूजां शिखण्डिने वरयामास दारान्
हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः। स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने