सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता भीष्मेण समरे रामो निर्जितश्चारुलोचनि
कोऽन्यस्तमुत्सहेञ्जेतुमुद्यतेषुं महीपतिः । साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम्
विचरामि महीं देवि यथा हन्यामहं नृपम् । एतद्व्रतफलं देवि परमस्मिन्यथा हि मे
ततोऽब्रवीत्सागरगा जिह्मं चरसि भामिनि। नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाऽबले
यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम्। व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि
नदी भविष्यसि शुभे कुटिला वार्षिकोदका। दुस्तीर्था न तु विज्ञेया वार्षिकी नाष्टमासिकी
भीमग्राहवती घोरा सर्वभूतभयंकरी । एवमुक्त्वा ततो राजन्काशिकन्यां न्यवर्तत
माता मम महाभागा स्मयमानेव भामिनी । कदाचिदष्टमे मासि कदाचिद्दशमे तथा। न प्राश्नीतोदकमपि पुनः सा वरवर्णिनी
सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः । पतिता परिधावन्ती पुनः काशिपतेः सुता
सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत । वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा
सा कन्या तपसा तेन देहार्धेन व्यजायत । नदी च राजन्वत्सेषु कन्या चैवाभवत्तदा
ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम्। दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन्
तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा । निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः
वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः । निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः
यत्कृते दुःखवसतिमिमां प्राप्तऽस्मि शाश्वतीम् । पतिलोकाद्विहीना च नैव स्त्री न पुमानिह
नाहत्वा युधि गाङ्गेयं निवर्तिष्ये तपोधनाः । एष मे हृदि संकल्पो यदिदं कथितं मया
स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया । भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः
तां देवो दर्शयामास शूलपाणिरुमापतिः । मध्ये तेषां महार्षीणां स्वेन रूपेण तापसीम्
छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम् । हनिष्यसीति तां देवः प्रत्युवाच मनस्विनीम्
ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह। उपपद्येत्कथं देव स्त्रिया युधि जयो मम
स्त्रीभावेन च मे गाढं मनः शान्तमुमापते । प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः
यथा स सत्यो भवति तथा कुरु वृषध्वज । यथा हन्यां समागम्य भीष्मं शान्तनवं युधि
तामुवाच महादेवः कन्यां किल वृषध्वजः । न मे वागमृतं प्राह सत्यं भद्रे भविष्यसि
हनिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यति ।। स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती
द्रुपदस्य कुले जाता भविष्यसि महारथः। शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसंमतः
यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति। भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात्
एवमुक्त्वा महादेवः कपर्दी वृषभध्वजः। पश्यतामेव विप्राणां तत्रैवान्तरधीयत
ततः सा पश्यतां तेषां महर्षीणामनिन्दिता । समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी
चितां कृत्वा सुमहतीं प्रदाय च हुताशनम् । प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा
उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम् । ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम्