ततो महेन्द्रं सहितैरमुनिभिर्भृगुसत्तमः । यथाऽऽगतं तथा सोऽगन्मामुपामन्त्र्य भारत
ततो रथं समारुह्य स्तूयमानो द्विजातिभिः । प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम्
यथावृत्तं महाराज सा च मां प्रत्यनन्दत। पुरुषांश्चादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि
दिवसे दिवसे ह्यस्या गतिजल्पितचेष्टितम् । प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते सदा
यदैव हि वनं प्रायात्सा कन्या तपसे धृता। तदैव व्यथितो दीनो गतचेता इवाभवम्
न हि मां क्षत्रियः कश्चिद्वीर्येण व्यजयद्युधि । ऋते ब्रह्मविदस्तात तपसा संशितव्रतात्
अपि चैतन्मया राजन्नारदेऽपि निवेदितम् । व्यासे चैव तथा कार्यं तौ चोभौ मामवोचताम्
न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति। दैवं पुरुषकारेण को निवर्तितुमुत्सहेत्
सा कन्या तु महाराज प्रविश्याश्रममण्डलम् । यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम्
निराहारा कृशा रूक्षा जटिला मलपङ्किनी । षण्मासान्वायुभक्षा च स्थाणुभूता तपोधना
यमुनाजलमाश्रित्य संवत्सरमथाऽपरम् । उदवासं निराहारा पारयामास भामिनी
शीर्णपर्णेन चैकेन पारयामास सा परम् । संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता
एवं द्वादश वर्षाणि तापयामास रोदसी । निवर्त्यमानापि च सा ज्ञातिभिर्नैव शक्यते
ततोऽगमद्वत्सभूमिं सिद्धचारणसेविताम् । आश्रमं पुण्यशीलानां तापसानां महात्मनाम्
तत्र पुण्येषु तीर्थेषु साऽऽप्लुताङ्गी दिवानिशम् । व्यचरत्काशिकन्या सा यथाकामविचारिणी
नन्दाश्रमे महाराज तथोलूकाश्रमे शुभे । च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च
त्रयागे देवयजने देवारण्येषु चैव ह । भोगवत्यां महाराज कौशिकस्याश्रमे तथा
माण्डव्यस्याश्रमे राजन्दिलीपस्याश्रमे तथा । रामह्रदे च कौरव्य पैलगर्गस्य चाश्रमे
एतेषु तीर्थेषु तदा काशिकन्या विशांपते । आप्लावयत गात्राणि व्रतमास्थाय दुष्करम्
तामब्रवीच्च कौरव्य मम माता जले स्थिता । किमर्थं क्लिश्यसे भद्रे तथ्यमेव वदस्व मे
सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता भीष्मेण समरे रामो निर्जितश्चारुलोचनि
कोऽन्यस्तमुत्सहेञ्जेतुमुद्यतेषुं महीपतिः । साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम्
विचरामि महीं देवि यथा हन्यामहं नृपम् । एतद्व्रतफलं देवि परमस्मिन्यथा हि मे
ततोऽब्रवीत्सागरगा जिह्मं चरसि भामिनि। नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाऽबले
यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम्। व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि
नदी भविष्यसि शुभे कुटिला वार्षिकोदका। दुस्तीर्था न तु विज्ञेया वार्षिकी नाष्टमासिकी
भीमग्राहवती घोरा सर्वभूतभयंकरी । एवमुक्त्वा ततो राजन्काशिकन्यां न्यवर्तत
माता मम महाभागा स्मयमानेव भामिनी । कदाचिदष्टमे मासि कदाचिद्दशमे तथा। न प्राश्नीतोदकमपि पुनः सा वरवर्णिनी
सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः । पतिता परिधावन्ती पुनः काशिपतेः सुता
सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत । वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा