तथैवात्तशरो धन्वी तथैव दृढनिश्चयः । स्थितोऽहमाहवे योद्धुं ततस्ते राममब्रुवन्
समेत्य सहिता भूयः समरे भृगुनन्दनम् । नावनीतं हि हृदयं विप्राणां शाम्य भार्गव
राम राम निवर्तस्व युद्धादस्माद्द्विजोत्तम । अवध्यो वै त्वया भीष्मस्त्वं च भीष्मस्य भार्गव
एवं ब्रुवन्तस्ते सर्वे प्रतिरुद्ध्य रणाजिरम् । न्यासयाञ्चक्रिरे शस्त्रं पितरो भृगुनन्दनम्
ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः । अद्राक्षं दीप्यमानान्वै ग्रहानष्टाविवोदितान्
ते मां सप्रणयं वाक्यमब्रुवन्समरे स्थितम् । प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु
दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै। लोकानां च हितं कुर्वन्नहमप्याददे वचः
ततोऽहं राममासाद्य ववन्दे भृशविक्षतः। रामश्चाभ्युत्स्मयन्प्रेम्णा मामुवाच महातपाः
त्वत्समो नास्ति लोकेऽस्मिन्क्षत्रियः पृथिवीचरः । गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया
मम चैव समक्षं तां कन्यामाहूय भार्गवः। उक्तवान्दीनया वाचा मध्ये तेषां महात्मनाम्
प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि । यथाशक्त्या मया युद्धं कृतं वै पौरुषं परम्
न चैवमपि शक्नोमि भीष्मं शस्त्रभृतां वरम् । विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन्
एषा मे परमा शक्तिरेतन्मे परमं बलम् । यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते
भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः । निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता
एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः । तूष्मीमासीत्ततः कनक्या प्रोवाच भृगुनन्दनम्
भगवन्नेवमेवैतद्यथाऽऽह भगवांस्तथा । अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः
यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया । अनिवार्यं रणे वीर्यमस्त्राणि विविधानि च
ने चैव शक्यते युद्धे विशेषयितुमन्ततः । न चाहमेनं यास्यामि पुनर्भीष्मं कथंचन
गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन । समरे पातयिष्यामि स्वयमेव भृगूद्वह
एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना । तापस्ये धृतसंकल्पा सा मे चिन्तयती वधम्
ततो महेन्द्रं सहितैरमुनिभिर्भृगुसत्तमः । यथाऽऽगतं तथा सोऽगन्मामुपामन्त्र्य भारत
ततो रथं समारुह्य स्तूयमानो द्विजातिभिः । प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम्
यथावृत्तं महाराज सा च मां प्रत्यनन्दत। पुरुषांश्चादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि
दिवसे दिवसे ह्यस्या गतिजल्पितचेष्टितम् । प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते सदा
यदैव हि वनं प्रायात्सा कन्या तपसे धृता। तदैव व्यथितो दीनो गतचेता इवाभवम्
न हि मां क्षत्रियः कश्चिद्वीर्येण व्यजयद्युधि । ऋते ब्रह्मविदस्तात तपसा संशितव्रतात्
अपि चैतन्मया राजन्नारदेऽपि निवेदितम् । व्यासे चैव तथा कार्यं तौ चोभौ मामवोचताम्
न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति। दैवं पुरुषकारेण को निवर्तितुमुत्सहेत्
सा कन्या तु महाराज प्रविश्याश्रममण्डलम् । यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम्
निराहारा कृशा रूक्षा जटिला मलपङ्किनी । षण्मासान्वायुभक्षा च स्थाणुभूता तपोधना