ततो रामो हृषितो राजसिंह दृष्ट्वा तदस्त्रं विनिवर्तितं वै। जितोऽस्मि भीष्मेण सुमन्दबुद्धि- रित्येव वाक्यं सहसा व्यमुञ्चत्
ततोऽपश्यत्पितरं जामदग्न्यः पितुस्तथा पितरं चास्य मान्यम्। ते तत्र चैनं परिवार्य तस्थु- रूचुश्चैनं सान्त्वपूर्वं तदनीम्
मा स्मैवं साहसं तात पुनः कार्षीः कथञ्चन । भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः
क्षत्रियस्य तु धर्मोऽयं यद्युद्धं भृगुनन्दन । स्वाध्यायो व्रतचर्याऽथ ब्राह्मणानां परं धनम्
इदं निमित्ते कस्मिंश्चिदस्माभिः प्रागुदाहृतम् । शस्त्रधारणमत्युग्रं तच्चाकार्यं कृतं त्वया
वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे । विमर्दस्ते महाबाहो व्यपयाहि रणादितः
पर्याप्तमेतद्भद्रं ते तव कार्मुकधारणम् । विसर्जयैतद्दुर्धर्ष तपस्तप्यस्व भार्गव
एष भीष्मः शान्तनवो देवैः सर्वैर्निवारितः। निवर्तस्व रणादस्मादिति चैव प्रसादितः
रामेण सह मायोत्सीर्गुरुणेति पुनः पुनः । न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह
मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे। वयं तु गुरवस्तुभ्यं तस्मात्त्वां वारयामहे
भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रक । गाङ्गेयः शन्तनोः पुत्रो वसुरेष महायशाः
कथं शक्यस्त्वया जेतुं निवर्तस्वेह भार्गव । अर्जुनः पाण्डवश्रेष्ठः पुरन्दरसुतो बली
नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः। सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान्। भीष्ममृत्युर्यथाकालं विहितो वै स्वयंभुवा
एवमुक्तः स पितृभिः पितॄन्रामोऽब्रवीदिदम्। नाहं युधि निवर्तेयमिति मे व्रतमाहितम्। न निवर्तितपूर्वश्च कदाचिद्रणमूर्धनि
निवर्त्यतामापगेयः कामं युद्धात्पितामहाः। न त्वहं विनिवर्तिष्ये युद्धादस्मात्कथंचन
ततस्ते मुनयो राजन्नृचीकप्रमुखास्तदा । नारदेनैव सहिताः समागम्येदमब्रुवन्
निवर्तस्व रणात्तात मानयस्व द्विजोत्तमम् । इत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया
मम व्रतमिदं लोके नाहं युद्धात्कदाचन। विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतः शरैः
नाहं लोभान्न कार्पण्यान्न भयान्नार्थकारणात्। त्यजेयं शाश्वतं धर्ममिति मे निश्चिता मतिः
ततस्ते मुनयः सर्वे नारदप्रमुखा नृप। भागीरथी च मे माता रणमध्यं प्रपेदिरे
तथैवात्तशरो धन्वी तथैव दृढनिश्चयः । स्थितोऽहमाहवे योद्धुं ततस्ते राममब्रुवन्
समेत्य सहिता भूयः समरे भृगुनन्दनम् । नावनीतं हि हृदयं विप्राणां शाम्य भार्गव
राम राम निवर्तस्व युद्धादस्माद्द्विजोत्तम । अवध्यो वै त्वया भीष्मस्त्वं च भीष्मस्य भार्गव
एवं ब्रुवन्तस्ते सर्वे प्रतिरुद्ध्य रणाजिरम् । न्यासयाञ्चक्रिरे शस्त्रं पितरो भृगुनन्दनम्
ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः । अद्राक्षं दीप्यमानान्वै ग्रहानष्टाविवोदितान्
ते मां सप्रणयं वाक्यमब्रुवन्समरे स्थितम् । प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु
दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै। लोकानां च हितं कुर्वन्नहमप्याददे वचः
ततोऽहं राममासाद्य ववन्दे भृशविक्षतः। रामश्चाभ्युत्स्मयन्प्रेम्णा मामुवाच महातपाः
त्वत्समो नास्ति लोकेऽस्मिन्क्षत्रियः पृथिवीचरः । गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया
मम चैव समक्षं तां कन्यामाहूय भार्गवः। उक्तवान्दीनया वाचा मध्ये तेषां महात्मनाम्