स वक्षसि पापतोग्रः शरो व्याल इव श्वसन् । महीं राजंस्ततश्चाहमगमं रुधिराविलः
संप्राप्य तु पुनः संज्ञां जामदघ्न्याय धीमते । प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव
सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे । विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत्
तत एनं परिष्वज्य सखा विप्रो महातपाः । अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा
समाश्वस्तस्ततो रामः क्रोधामर्षसमन्वितः । प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः
ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम् । मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत्
तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः । असंप्राप्यैव रामं च मां च भारतसत्तम
ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम् । भूतानि चैव सर्वाणि जग्मुरार्तिं विशांपते
ऋषयश्च सगन्धर्वा देवताश्चैव भारत। संतापं परमं जग्मुरस्त्रतेजोभिपीडिताः
ततश्चचाल पृथिवी सपर्वतवनद्रुमा। संतप्तानि च भूतानि विषादंक जग्मुरुत्तमम्
प्रजज्वाल नभो राजन्धूमायन्ते दिशो दश। न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा
ततो हाहाकृते लोके सदेवासुरराक्षसे । इदमन्तरमित्येवं मोक्तुकामोऽस्मि भारत
प्रस्वापमस्त्रं त्वरितो वचनाद्ब्रह्मवादिनाम् । चिन्तितं च तदस्त्रं मे मनसि प्रत्यभात्तदा
ततो हलहलाशब्दो दिवि राजन्महानभूत्। प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन
अयुञ्जमेव चैवाहं तदस्त्रं भृगुनन्दने । प्रस्वापं मां प्रयुज्जानं नारदो वाकयमब्रवीत्
एते वियति करव्य दिवि देवगणाः स्थिताः। ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजय
रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते। तस्यवमानं कौरव्य मास्म कार्षीः कथञ्चन
ततोऽपश्यं दिविष्ठान्वै तानष्टौ ब्रह्मवादिनः । ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन्
यथाऽऽह भरतश्रेष्ठ नारदस्तत्तथा कुरु । एतद्धि परमं श्रेयो लोकानां भरतर्षभ
ततश्च प्रतिसंहृत्य तदस्त्रं स्वापनं महत्। ब्रह्मास्त्रं दीपयाञ्चक्रे तस्मिन्युधि यथाविधि
ततो रामो हृषितो राजसिंह दृष्ट्वा तदस्त्रं विनिवर्तितं वै। जितोऽस्मि भीष्मेण सुमन्दबुद्धि- रित्येव वाक्यं सहसा व्यमुञ्चत्
ततोऽपश्यत्पितरं जामदग्न्यः पितुस्तथा पितरं चास्य मान्यम्। ते तत्र चैनं परिवार्य तस्थु- रूचुश्चैनं सान्त्वपूर्वं तदनीम्
मा स्मैवं साहसं तात पुनः कार्षीः कथञ्चन । भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः
क्षत्रियस्य तु धर्मोऽयं यद्युद्धं भृगुनन्दन । स्वाध्यायो व्रतचर्याऽथ ब्राह्मणानां परं धनम्
इदं निमित्ते कस्मिंश्चिदस्माभिः प्रागुदाहृतम् । शस्त्रधारणमत्युग्रं तच्चाकार्यं कृतं त्वया
वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे । विमर्दस्ते महाबाहो व्यपयाहि रणादितः
पर्याप्तमेतद्भद्रं ते तव कार्मुकधारणम् । विसर्जयैतद्दुर्धर्ष तपस्तप्यस्व भार्गव
एष भीष्मः शान्तनवो देवैः सर्वैर्निवारितः। निवर्तस्व रणादस्मादिति चैव प्रसादितः
रामेण सह मायोत्सीर्गुरुणेति पुनः पुनः । न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह
मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे। वयं तु गुरवस्तुभ्यं तस्मात्त्वां वारयामहे