न त्वां रामो रणे जेता जामदग्न्यः कथंचन । त्वमेव समरे रामं विजेता भरतर्षभ
इदमस्त्रं सुदयितं प्रत्यभिज्ञास्यते भवान् । विदितं हि तवाप्येतत्पूर्वस्मिन्देहधारणे
प्राजापत्यं विश्वकृतं प्रस्वापं नाम भारत । न हीदं वेद रामोऽपि पृथिव्यां वा पुमान्क्वचित्
तत्स्मरस्व महाबाहो भृशं संयोजयस्व च। उपस्थास्यति राजेन्द्र स्वयमेव तवानघ
येन सर्वान्महावीर्यान्प्रशासिष्यसि कौरव । न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप
एनसा न तु संयोगं प्राप्स्यसे जातु मानद । स्वप्स्यते जामदग्न्योऽसौ त्वद्बाणबलपीडितः
ततो जित्वा त्वमेवैनं पुनरुत्थापयिष्यसि। अस्त्रेण दयितेनाजौ भीष्म संबोधनेन वै
एवं कुरुष्व कौरव्य प्रभाते रथमास्थितः। प्रसुप्तं वा मृतं वेति तुल्यं मन्यामहे वयम्
न च रामेण मर्तव्यं कदाचिदपि पार्थिव। ततः समुत्पन्नमिदं प्रस्वापं युज्यतामिति
इत्युक्त्वान्तर्हिता राजन्सर्व एव द्विजोत्तमाः । अष्टौ सदृशरूपास्ते सर्वे भासुरमूर्तयः
ततो रात्रौ व्यतीतायां प्रतिबुद्धोऽस्मि भारत । ततः संचिन्त्य वै स्वप्नमवापं हर्षमुत्तमम्
ततः समभवद्युद्धं मम तस्य च भारत । तुमुलं सर्वभूतानां रोमहर्षणमद्भुतम्
ततो बाणमयं वर्षं ववर्ष मयि भार्गवः। न्यवारयमहं तच्च शरजालेन भारत
ततः परमसंक्रुद्धः पुनरेव महातपाः । ह्यस्तनेन च कोपेन शक्तिं वै प्राहिणोन्मयि
इन्द्राशनिसमस्पर्शां यमदण्डसमप्रभाम् । ज्वलन्तीमग्निवत्सङ्ख्ये लेलिहानां समन्ततः
ततो भरतशार्दूल धिष्ण्यमाकाशगं यथा। सा ममाभ्यवधीत्तूर्णं जत्रुदेशे कुरूद्वह
अथास्रमस्रवद्धोरं गिरेर्गैरिकधातुवात् । रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण
ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः । चिक्षेप मृत्युसंकाशं बाणं सर्पविषोपमम्
स तेनाभिहतो वीरो ललाटे द्विजसत्तमः । अशोभत महाराज शश्रृङ्ग इव पर्वतः
स संरब्धः समावृत्य शरं कालान्तकोपमम् । संदधे बलवत्कृष्य घोरं शत्रनिबर्हणम्
स वक्षसि पापतोग्रः शरो व्याल इव श्वसन् । महीं राजंस्ततश्चाहमगमं रुधिराविलः
संप्राप्य तु पुनः संज्ञां जामदघ्न्याय धीमते । प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव
सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे । विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत्
तत एनं परिष्वज्य सखा विप्रो महातपाः । अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा
समाश्वस्तस्ततो रामः क्रोधामर्षसमन्वितः । प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः
ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम् । मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत्
तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः । असंप्राप्यैव रामं च मां च भारतसत्तम
ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम् । भूतानि चैव सर्वाणि जग्मुरार्तिं विशांपते
ऋषयश्च सगन्धर्वा देवताश्चैव भारत। संतापं परमं जग्मुरस्त्रतेजोभिपीडिताः
ततश्चचाल पृथिवी सपर्वतवनद्रुमा। संतप्तानि च भूतानि विषादंक जग्मुरुत्तमम्