तथा तु पतिते राजन्मयि रामो मुदा युतः। उदक्रोशन्महानादं सह तैरनुयायिभिः
मम तत्राभवन्ये तु कुरवः पार्श्वतः स्थिताः । आगता अपि युद्धं तञ्जनास्तत्र दिदृक्षवः । आर्तिं परमिकां जग्मुस्ते तदा पतिते मयि
ततोऽपश्यं पतितो राजसिंह द्विजानष्टौ सूर्यहुताशनाभान् । ते मां समन्तात्परिर्वाय तस्थुः स्वबाहुभिः परिधार्याजिमध्ये
रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम् । अन्तरिक्षे धृतो ह्यस्मि तैर्विप्रैर्बान्धवैरिव
श्वसन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः । ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम्
मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत्। ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः । मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम्
हयाश्च मे संगृहीतास्तयाऽऽस- न्महानद्या संयति कौरवेन्द्र। पादौ जनन्याः प्रतिगृह्य चाहं तथा पितॄणां रथमभ्यरोहम्
ररक्ष सा मां सरथं हयांश्चोपस्काराणि च। तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम्
ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः। अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत
ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम् । अमुञ्चं समरे बाणं रामाय हृदयच्छिदम्
ततो जगाम वसुधां मम बाणप्रपीडितः । जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः
ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे । आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु
उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः। अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत्
ववुश्च वाताः परुषाश्चलिता च वसुंधरा । गृध्रा बलाश्च कङ्काश्च परिपेतुर्गुदा युताः
दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत् । अनाहता दुन्दुभयो विनेदुर्भृशनिःस्वनाः
एतदौत्पातिकं सर्वं घोरमासीद्भयंकरम् । विसंज्ञकल्पे धरणीं गते रामे महात्मनि
ततो वै सहसोत्थाय रामो मामभ्यवर्तत । पुनर्युद्धाय कौरव्य विह्वलः क्रोधमूर्छितः
आददानो महाबाहुः कार्मुकं तालसन्निभम् । ततो मय्याददानं तं राममेव न्यवारयन्
महर्षयः कृपायुक्ताः क्रोधाविष्टोऽपि भार्गवः । समाहरदमेयात्मा शरं कालानलोपमम्
सतो रविर्मन्दमरीचिमण्डलो जगामास्तं पांसुपुञ्जावगूढः निशा व्यगाहत्सुखशीतमारुता ततो युद्धं प्रत्यवहारयाव-
एवं राजन्नवहारो बभूव ततः पुनर्विमलेऽभूत्सुघोरम्। कल्यंकल्यं विंशतिं वै दिनानि तथैव चान्यानि दिनानि त्रीणि
ततोऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा। ब्राह्मणानां पितॄणां च देवतानां च सर्वशः
नक्तंचराणां भूतानां राजन्यानां विशांपते। शयनं प्राप्य रहिते मनसा समचिन्तयम्
जामदग्न्येन मे युद्धमिदं परमदारुणम् । अहानि च बहून्यद्य वर्तते सुमहात्ययम्
न च रामं महावीर्यं शक्नोमि रणमूर्धनि । विजेतुं समरे विप्रं जामदग्न्यं महाबलम्
यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान् । दैवतानि प्रसन्नानि दर्शयन्तु निशां मम
ततो निशि च राजेन्द्र प्रसुप्तः शरविक्षतः । दक्षिणेनेह पार्श्वेन प्रभातसमये तदा
ततोऽहं विप्रमुख्यैस्तैर्यैरस्मि पतितो रथात्। उत्थापितो धृतश्चैव मा भैरिति च सान्त्वितः
त एव मां महाराज स्वप्ने दर्शनमेत्य वै । परिवार्याब्रुवन्वाक्यं तन्निबोध कुरूद्वह
उत्तिष्ठ मा भैर्गाङ्गेय न भयं तेऽस्ति किंचन। रक्षामहे त्वां कौरव्य स्वशरीरं हि नो भवान्