अभिघातप्रभावाच्च पावकः समजायत । ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना
भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे । तदा शतसहस्राणि प्रयुतान्यर्बुदानि च
अयुतान्यथ खर्वाणि निखर्वाणि च कौरव । रामः शराणां संक्रुद्धो मयि तूर्णं न्यपातयत्
ततोऽहं तानपि रणे शरैराशीविषोपमैः । संछिद्य भूमौ नृपते पातयेयं नगानिव
एवं तदभवद्युद्वं तदा भरतसत्तम । सन्ध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः
समागतस्य रामेण पुनरेवातिदारुणम्। अन्येद्युस्तुमुलं युद्धं तदा भरतसत्तम
ततो दिव्यास्त्रविच्छूरो दिव्यान्यस्त्राण्यनेकशःक । अयोजयत्स धर्मात्मा दिवसे दिवसे विभुः
तान्यहं तत्प्रतीघातैरस्त्रैरस्त्राणि भारत। व्यधमं तुमुलेयुद्धेप्राणांस्त्यक्त्वासुदुस्त्यजान्
अस्त्रैरस्त्रेषु बहुधा हतेष्वेव च भारत । अक्रुध्यत महातेजास्त्यक्तप्राणः स संयुगे
ततः शक्तिं प्राहिणोद्धोररूपा- मस्त्रे रुद्धे जामदग्न्यो महात्मा। कालोत्सृष्टां प्रज्वलितामिवोल्कां संदीप्ताग्रां तेजसा व्याप्य लोकम्
ततोऽहं तामिषुभिर्दीप्यमानां समायान्तीमन्तकालार्कदीप्ताम् । छित्त्वा त्रिधा पातयामास भूमौ ततो ववौ पवनः पुण्यगन्धिः
तस्यां छिन्नायां क्रोधदीप्तोऽथ रामः शक्तीर्घोराः प्राहिणोद्द्वादशान्याः । तासां रूपं भारत नोत शक्यं तेजस्वित्वाल्लाघवाच्चैव वक्तुम्
किन्त्वेवाहं विह्वलः संप्रदृश्य दिग्भ्यः सर्वास्ता महोत्का इवाग्नेः । नानारूपास्तेजसोग्रेण दीप्ता यथाऽऽदित्या द्वादश लोकसंक्षये
ततो जालं बाणमयं विवृत्तं संदृश्य भित्त्वा शरजालेन राजन्। द्वादशेषून्प्राहिणवं रणेऽहं ततः शक्तीरप्यधमं घोररूपाः
ततो राजञ्जामदग्न्यो महात्मा शक्तीर्घोरा व्याक्षिपद्धेमदण्डाः। विचित्रिताः काञ्चनपट्टनंद्धा यथा महोल्का ज्वलितास्तथा ताः
ताश्चाप्युग्राश्चर्मणा वारयित्वा खङ्गेनाजौ पातयित्वा नरेन्द्र। बाणैर्दिव्यैर्जामदग्न्यस्य सङ्ख्ये दिव्यानश्वानभ्यवर्षं ससूतान्
निर्मिक्तानां पन्नगानां सरूपा दृष्ट्वा शक्तीर्हेमचित्रा निकृत्ताः । प्रादुश्चक्रे दिव्यमस्त्रं महात्मा क्रोधाविष्टो हैहयेशममाथी
ततः श्रेण्यः शलभानामिवोग्राः समापेतुर्विशिखानां प्रदीप्ताः । समाचिनोच्चापि भृशं शरीरं हयान्सूतं सरथं चैव मह्यम्
रथः शरैर्मे निचितः सर्वतोऽभू- त्तथा वाहाः सारथिश्चैव राजन्। युगं रथेषां च तथैव चक्रे तथैवाक्षः शरकृत्तोऽथ भग्नः
ततस्तस्मिन्बाणवर्षे व्यतीते शरौघेण प्रत्यवर्षं गुरुं तम्। स विक्षतो मार्गणैर्ब्रह्मराशि- र्देहादसक्तं मुमुचे भूरि रक्तम्
यथा रामो बाणजालाभितप्त- स्तथैवाहं सुभृशं गाढविद्धः । ततो युद्धं व्यरमच्चापराह्णे भानावस्तं प्रतियाते महीध्रम्
ततः प्रभाते राजेन्द्र सूर्ये विमलतां गते। भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत
ततोऽभ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः। ववर्ष शरजालानि मयि मेध इवाचले
ततः सूतो मम सुहृच्छरवर्षेण ताडितः। अपयातो रथोपस्थान्मनो मम विषादयन्
ततः सूतो ममात्यर्थं कश्मलं प्राविशन्महत् । पृथिव्यां च शराघातान्निपपात मुमोह च
ततः सूतो जहात्प्राणान्रामबाणप्रपीडितः। मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा
ततः सूते हते तस्मिन्क्षिपतस्तस्य मे शरान् । प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितम्
ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः । शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः
स मे भुजान्तरे राजन्निपत्य रुधिराशनः। मयैव सह राजेन्द्र जगाम वसुधातलम्
मत्वा तु निहतं रामस्ततो मां भरतर्षभ । मेघवद्विननादोच्चैर्जहृषे च पुनः पुनः