तेन त्वभिहतो गाढं बाणवेगवशं गतः। मुमोह समरे रामो भूमौ च निपपात ह
ततो हाहाकृतं कसर्वं रामे भूतलमाश्रिते । जगद्भारत संविग्नं यथार्कपतने भवेत्
तत एनं समुद्विग्नाः सर्व एवाभिदुद्रुवुः । तपोधनास्ते सहसा काश्या च कुरुनन्दन
तत एनं परिष्वज्य शनैराश्वासयंस्तदा । पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव
ततः स विह्वलं वाक्यं राम उत्थाय चाब्रवीत्। तिष्ठ भीष्म हतोऽसीति बाणं संधाय कार्मुके
स मुक्तो न्यपतत्तूर्णं सव्ये पार्श्वे महाहवे । येनाहं भृशमुद्विग्रो व्याघूर्णित इव द्रुमः
हत्वा हयांस्ततो रामः शीघ्रास्त्रेण महाहवे । अवाकिरन्मां विस्रब्धो बाणैस्तैर्लोमवाहिभिः
ततोऽहमपि शीघ्रास्त्रं समरप्रतिवारणम् । अवासृजं महाबाहो तेन्तराधिष्ठिताः शराः
रामस्य मम चैवाशु व्योमावृत्य समन्ततः। न स्म सूर्यः प्रतपति शरजालसमावृतः
मातरिश्वा ततस्तस्मिन्मेघरुद्ध इवाभवत् । ततो वायोः प्रकम्पाच्च सूर्यस्य च गभस्तिभिः
अभिघातप्रभावाच्च पावकः समजायत । ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना
भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे । तदा शतसहस्राणि प्रयुतान्यर्बुदानि च
अयुतान्यथ खर्वाणि निखर्वाणि च कौरव । रामः शराणां संक्रुद्धो मयि तूर्णं न्यपातयत्
ततोऽहं तानपि रणे शरैराशीविषोपमैः । संछिद्य भूमौ नृपते पातयेयं नगानिव
एवं तदभवद्युद्वं तदा भरतसत्तम । सन्ध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः
समागतस्य रामेण पुनरेवातिदारुणम्। अन्येद्युस्तुमुलं युद्धं तदा भरतसत्तम
ततो दिव्यास्त्रविच्छूरो दिव्यान्यस्त्राण्यनेकशःक । अयोजयत्स धर्मात्मा दिवसे दिवसे विभुः
तान्यहं तत्प्रतीघातैरस्त्रैरस्त्राणि भारत। व्यधमं तुमुलेयुद्धेप्राणांस्त्यक्त्वासुदुस्त्यजान्
अस्त्रैरस्त्रेषु बहुधा हतेष्वेव च भारत । अक्रुध्यत महातेजास्त्यक्तप्राणः स संयुगे
ततः शक्तिं प्राहिणोद्धोररूपा- मस्त्रे रुद्धे जामदग्न्यो महात्मा। कालोत्सृष्टां प्रज्वलितामिवोल्कां संदीप्ताग्रां तेजसा व्याप्य लोकम्
ततोऽहं तामिषुभिर्दीप्यमानां समायान्तीमन्तकालार्कदीप्ताम् । छित्त्वा त्रिधा पातयामास भूमौ ततो ववौ पवनः पुण्यगन्धिः
तस्यां छिन्नायां क्रोधदीप्तोऽथ रामः शक्तीर्घोराः प्राहिणोद्द्वादशान्याः । तासां रूपं भारत नोत शक्यं तेजस्वित्वाल्लाघवाच्चैव वक्तुम्
किन्त्वेवाहं विह्वलः संप्रदृश्य दिग्भ्यः सर्वास्ता महोत्का इवाग्नेः । नानारूपास्तेजसोग्रेण दीप्ता यथाऽऽदित्या द्वादश लोकसंक्षये
ततो जालं बाणमयं विवृत्तं संदृश्य भित्त्वा शरजालेन राजन्। द्वादशेषून्प्राहिणवं रणेऽहं ततः शक्तीरप्यधमं घोररूपाः
ततो राजञ्जामदग्न्यो महात्मा शक्तीर्घोरा व्याक्षिपद्धेमदण्डाः। विचित्रिताः काञ्चनपट्टनंद्धा यथा महोल्का ज्वलितास्तथा ताः
ताश्चाप्युग्राश्चर्मणा वारयित्वा खङ्गेनाजौ पातयित्वा नरेन्द्र। बाणैर्दिव्यैर्जामदग्न्यस्य सङ्ख्ये दिव्यानश्वानभ्यवर्षं ससूतान्
निर्मिक्तानां पन्नगानां सरूपा दृष्ट्वा शक्तीर्हेमचित्रा निकृत्ताः । प्रादुश्चक्रे दिव्यमस्त्रं महात्मा क्रोधाविष्टो हैहयेशममाथी
ततः श्रेण्यः शलभानामिवोग्राः समापेतुर्विशिखानां प्रदीप्ताः । समाचिनोच्चापि भृशं शरीरं हयान्सूतं सरथं चैव मह्यम्
रथः शरैर्मे निचितः सर्वतोऽभू- त्तथा वाहाः सारथिश्चैव राजन्। युगं रथेषां च तथैव चक्रे तथैवाक्षः शरकृत्तोऽथ भग्नः
ततस्तस्मिन्बाणवर्षे व्यतीते शरौघेण प्रत्यवर्षं गुरुं तम्। स विक्षतो मार्गणैर्ब्रह्मराशि- र्देहादसक्तं मुमुचे भूरि रक्तम्