ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः । अकम्पयन्महावेगाः सर्पानलविषोपमाः
तमहं समवष्टभ्य पुनरात्मानमाहवे । शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम्
स तैरग्न्यर्कसङ्काशैः शरैराशीविषोपमैः । शितैरभ्यर्दितो रामो मन्दचेता इवाभवत्
ततोऽहं कृपयाऽऽविष्टो विनिन्द्यात्मानमात्मना । धिग्धिगित्यब्रुवं युद्धं क्षत्रधर्मं च भारत
असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः । अहो बत कृतं पापं मयेदं क्षत्रधर्मं च भारत
गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः। ततो न प्राहरं भूयो जामदग्न्याय भारत
अथावताप्य पृथिवीं पूषा दिवसमंक्षये। जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत्
आत्मनस्तु ततः सूतो हयानां च विशांपते। मम चापनयामास शल्यान्कुशलसंमतः
स्नातापवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः। प्रभाते चोदिते सूर्ये ततो युद्धमवर्तत
दृष्ट्वा भां तूर्णमायान्तं दंशितं स्यन्दने स्थितम्। अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान्
ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम् । धनुःश्रेष्ठं समित्सृज्य सहसावतरं रथात्
अभिवाद्य तथैवाहं रथमारुह्य भारत । युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः
ततोऽहं शरवर्षेण महता समवाकिरम् । स च मां शरवर्षेण वर्षन्तं समवाकिरम्
संक्रुद्धो जामदग्न्यस्तु पुनरेव सुतेजितान् । संप्रैषीन्मे शरान्घोरान्दीप्तास्यानुरगानिव
ततोऽहं निशितैर्भल्लैः शतशोऽथ सहस्रशः । अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः
ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान् । मयि प्रयोजयामास तान्यहं प्रत्यषेधयम्
अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम्। ततो विदि महान्नादः प्रादुरासीत्समन्ततः
ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान्। प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत
ततोऽहमस्त्रमाग्नेयमनुमन्त्र्य प्रयुक्तवान् । वारुणेनैव तद्रामो वारयामास मे विभुः
एवमस्त्राणि दिव्यानि रामस्याहमवारयम् । रामश्च मम तेजस्वी दिव्यास्त्रविदरिन्दमः
ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः। उरस्यविध्यत्संक्रुद्धो जामदग्न्यः प्रतापवान्
ततोऽहं भारतश्रेष्ठ संन्यषीदं रथोत्तमे। ततो मां कश्मलाविष्टं सूतस्तूर्णमुदावहत्
ग्लायन्तं भरश्रेष्ठ रामबाणप्रपीडितम् । ततो मामपयातं वै भृशं विद्धमचेतसम्
रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा विचुक्रुशुः । अकृतव्रणप्रभृतयः काशिकन्या च भारत
ततस्तु लब्धसंज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम् । याहि सूत यतो रामः सज्जोऽहं गतवेदनः
ततो मामवहत्सूतो हयैः परमशोभितैः । नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ
ततोऽहं राममासाद्य बाणवर्षैश्च कौरव । अवाकिरं सुसंरब्धः संरब्धं च जिगीषया
तानापतत एवासौ रामो बाणानजिह्मगान्। बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे
ततस्ते सूदिताः सर्वे मम बाणाः सुसंशिताः । रामबाणैर्द्विधा च्छिन्नाः शतशोऽथ सहस्रशः
ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम् । असृजं जामदग्न्याय रामायाहं जिघांसया