आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि । भूयश्च शृणु मे ब्रह्मन्संपदं धर्मसंग्रहे
ये ते वेदाः शरीरस्था .... यच्च ते महत् । तपश्च ते महत्तप्तं न तेभ्यः प्रहराम्यहम्
प्रहरे क्षत्रधर्मस्य यं त्वं राम समाश्रितः । ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात्
पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं मम। एष ते कार्मुक वीर छिनद्मि निशितेषुणा
तस्याहं निशितं भल्लं चिक्षेप भरतर्षभ । तेनास्य धनुषः कोटिं छित्वा भूमावपातयम्
तथैव च पृषत्कानां शतानि नतपर्वणाम् । चिक्षेप कङ्कपत्राणां जामदग्न्यरथं प्रति
काये विषक्तास्तु तदा वायुना समुदीरिताः। चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः
क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं रणे। बभौ रामस्तथा राजन्प्रफुल्ल इव किंशुकः
हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः। बभौ रामस्तथा राजन्प्रफुल्ल इव किंशुकः
ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः । हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः
ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः । अकम्पयन्महावेगाः सर्पानलविषोपमाः
तमहं समवष्टभ्य पुनरात्मानमाहवे । शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम्
स तैरग्न्यर्कसङ्काशैः शरैराशीविषोपमैः । शितैरभ्यर्दितो रामो मन्दचेता इवाभवत्
ततोऽहं कृपयाऽऽविष्टो विनिन्द्यात्मानमात्मना । धिग्धिगित्यब्रुवं युद्धं क्षत्रधर्मं च भारत
असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः । अहो बत कृतं पापं मयेदं क्षत्रधर्मं च भारत
गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः। ततो न प्राहरं भूयो जामदग्न्याय भारत
अथावताप्य पृथिवीं पूषा दिवसमंक्षये। जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत्
आत्मनस्तु ततः सूतो हयानां च विशांपते। मम चापनयामास शल्यान्कुशलसंमतः
स्नातापवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः। प्रभाते चोदिते सूर्ये ततो युद्धमवर्तत
दृष्ट्वा भां तूर्णमायान्तं दंशितं स्यन्दने स्थितम्। अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान्
ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम् । धनुःश्रेष्ठं समित्सृज्य सहसावतरं रथात्
अभिवाद्य तथैवाहं रथमारुह्य भारत । युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः
ततोऽहं शरवर्षेण महता समवाकिरम् । स च मां शरवर्षेण वर्षन्तं समवाकिरम्
संक्रुद्धो जामदग्न्यस्तु पुनरेव सुतेजितान् । संप्रैषीन्मे शरान्घोरान्दीप्तास्यानुरगानिव
ततोऽहं निशितैर्भल्लैः शतशोऽथ सहस्रशः । अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः
ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान् । मयि प्रयोजयामास तान्यहं प्रत्यषेधयम्
अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम्। ततो विदि महान्नादः प्रादुरासीत्समन्ततः
ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान्। प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत
ततोऽहमस्त्रमाग्नेयमनुमन्त्र्य प्रयुक्तवान् । वारुणेनैव तद्रामो वारयामास मे विभुः
एवमस्त्राणि दिव्यानि रामस्याहमवारयम् । रामश्च मम तेजस्वी दिव्यास्त्रविदरिन्दमः