मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव । जामदग्न्येन समरे योद्धुमित्येव भर्त्सयत्
किं न वै क्षत्रियहणो हरतुल्यपराक्रमः । विदितः पुत्र रामस्ते यतस्तं योद्धुमिच्छसि
ततोऽहमब्रवं देवीमभिवाद्य कृताञ्जलिः। सर्वं तद्भरतश्रेष्ठ यथावृत्तं स्वयंवरे
यथा च रामो राजेन्द्र मया पूर्वं प्रचोदितः । काशिराजसुतायाश्च यथा कर्म पुरातनम्
ततः सा राममभ्येत्य जननी मे महानदी। मदर्थं तमृषिं वीक्ष्य क्षमयामास भार्गवम्
भीष्मेण सह मा योत्सीः शिष्येणेति वचो।़ब्रवीत् । स च तामाह याचन्तीं भीष्ममेव निवर्तय। न च मे कुरुते काममित्यहं तमुपागमम्
ततो गङ्गा सुतस्नोहान्मां सा पुनरुपागमत्। नास्या अकरवं वाक्यं क्रोधपर्याकुलेक्षणः
अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः। आह्वयामास च तदा युद्धाय द्विजसत्तमः
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्। भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः
आरोह स्यन्दनं वीर कवचं च महाभुज । बधान समरे राम यदि योद्धुं मयेच्छसि
ततो मामब्रवीद्रामः स्मयमानो रणाजिरे । रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत्
सूतश्च मातरिश्वा वै कवचं वेदमातरः । सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन
एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः। शरव्रातेन महता सर्वतः प्रत्यवारयत्
ततोऽपश्यं जामदग्न्यं रथमध्ये व्यवस्थितम् । सर्वायुधवरे श्रीमत्यद्भुतोपमदर्शने
मनसा विहिते पुण्ये विस्तीर्णे नगरोपभे । दिव्याश्वयुजि सन्नद्वे काञ्चनेन विभूषिते
कवचेन महाबाहो सोमार्ककृतलक्ष्मणा। धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान्
सारथ्यं कृतवांस्तत्र युयुत्सोरकुतव्रणः । सखा वेदविदत्यन्तं दयितो भार्गवस्य ह
आह्वयानः स मां युद्धे मनो हर्षयतीव मे । पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः
तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम् । क्षत्रियान्तकरं राममेकमेकः समासदूम्
ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै । अवतीर्य धनुर्न्यस्य पदातिर्ऋषिसत्तमम्
अभ्यागच्छं तदा राममर्चिष्यन्द्विजसत्तमम् । अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम्
योत्स्ये त्वया रणे राम सदृशेनाधिकेन वा । गुरुणा धर्मशीलेन जयमाशास्व मे विभो
एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता। धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम्
शपेयं त्वां नचेदेवमागच्छेथा विशांपते । युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव
न तु ते जयमाशासे त्वां विजेतुमहं स्थितः । गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते
ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः । प्राध्मापयं रणे शङ्खं पुनर्हेमपरिष्कृतम्
ततो युद्धं समभवन्मम तस्य च भारत । दिवसान्सुबहून्राजन्परस्परजिगीषया
स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्खपत्रिभिः । वष्ट्या शतैश्च नवभिः शराणां नतषर्वणाम्
चत्वारस्तेन मे वाहाः सूतश्चैव विशांपते । प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः
नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यो विशेषतः । तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्