कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता । मया विनिहतं देवी रोदतामद्य पार्थिव
अतदर्हा महाभागा भगीरथसुताऽनघा । या त्वामजीजनन्मन्दं युद्धकामुकमातुरम्
एहि गच्छ मया भीष्म युद्धकामुक दुर्मद । गृहाण सर्वं कौरव्य रथादि भरतर्षभ
इति ब्रुवाणं तमहं रामं परपुरंजयमक् । प्रणम्यक शिरसा राममेवमस्त्वित्यथाब्रवम्
एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया । प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम्
ततः कृतस्वस्त्ययनो मात्रा च प्रतिनन्दितः। द्विजातीन्वाच्य पुण्याहं स्वस्ति चैव महाद्युते
रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः। सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम्
उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम् । तत्कुलीनेन वीरेण हयशास्त्रविदा रणे
यत्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा । दंशितः पाण्डुरेणाहं कवचेन वपुष्मता
पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम । पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
पाण्डुरैश्चापि व्यजनैर्वीज्यमानो नराधिप । शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः
स्तूयमानो जयाशीर्भिर्निष्क्रम्य गजसाह्वयात्। कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ
ते हयाश्चोदितास्तेन सूतेन परमाहवे । अवहन्मां भृशं राजन्मनोमारुतरंहसः
गत्वाऽहं तत्कुरुक्षेत्रं स च रामः प्रतापवान् । युद्धाय सहसा राजन्पराक्रान्तौ परस्परम्
ततः सदर्शनेऽतिष्ठं रामस्यातितपस्विनः । प्रगृह्य शङ्खप्रवरंक ततः प्राधममुत्तमम्
ततस्तत्र द्विजा राजंस्तापसाश्च वनौकसः। अपश्यन्त रणं दिव्यं देवाः सेन्द्रगणास्तदा
ततो दिव्यानि माल्यानि प्रादुरासंस्ततस्ततः। वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह
ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः । प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम्
ततो मामब्रवीद्देवी सर्वभूतहितैषिणी । माता स्वरूपिणी राजन्किमिदं ते चिकीर्षितम्
गत्वाऽहं जामदग्न्यं तु प्रयाचिष्ये कुरूद्वह । भूष्मेण सह मा योत्सीः शिष्येणेति पुनः पुनः
मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव । जामदग्न्येन समरे योद्धुमित्येव भर्त्सयत्
किं न वै क्षत्रियहणो हरतुल्यपराक्रमः । विदितः पुत्र रामस्ते यतस्तं योद्धुमिच्छसि
ततोऽहमब्रवं देवीमभिवाद्य कृताञ्जलिः। सर्वं तद्भरतश्रेष्ठ यथावृत्तं स्वयंवरे
यथा च रामो राजेन्द्र मया पूर्वं प्रचोदितः । काशिराजसुतायाश्च यथा कर्म पुरातनम्
ततः सा राममभ्येत्य जननी मे महानदी। मदर्थं तमृषिं वीक्ष्य क्षमयामास भार्गवम्
भीष्मेण सह मा योत्सीः शिष्येणेति वचो।़ब्रवीत् । स च तामाह याचन्तीं भीष्ममेव निवर्तय। न च मे कुरुते काममित्यहं तमुपागमम्
ततो गङ्गा सुतस्नोहान्मां सा पुनरुपागमत्। नास्या अकरवं वाक्यं क्रोधपर्याकुलेक्षणः
अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः। आह्वयामास च तदा युद्धाय द्विजसत्तमः
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्। भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः
आरोह स्यन्दनं वीर कवचं च महाभुज । बधान समरे राम यदि योद्धुं मयेच्छसि