गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः। पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः
सा त्वं मम सकामस्य सकामा वरवर्णिनी। गान्धर्वेण विवाहेन भार्या भवितुमर्हसि
यदि धर्मपथस्त्वेव यदि चात्मा प्रभुर्मम। प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो
सत्यं मे प्रतिजानीहि यथा वक्ष्याम्यहं रहः। मयि जायेत यः पुत्रः स भवेत्त्वदनन्तरः
युवराजो महाराज सत्यमेतद्ब्रवीमि ते। यद्येतदेवं दुष्यन्त अस्तु मे सङ्गमस्त्वया
तस्यास्तु सर्वं संश्रुत्य यथोक्तं स विशांपतिः। दुष्यन्तः पुनरेवाह यद्यदिच्छसि तद्वद
ख्यातो लोकप्रवादोयं विवाह इति शास्त्रतः। वैवाहिकीं क्रियां सन्तः प्रशंसन्ति प्रजाहिताम्
लोकप्रवादशान्त्यर्थं विवाहं विधिना कुरु। सन्त्यत्र यज्ञपात्राणि दर्भाः सुमनसोऽक्षताः
यथा युक्तो विवाहः स्यात्तथा युक्ता प्रजा भवेत्। तस्मादाज्यं हविर्लाजाः सिकता ब्राह्मणास्तव
वैवाहिकानि चान्यानि समस्तानीह पार्थिव। दुरुक्तमपि राजेन्द्र क्षन्तव्यं धर्मकारणात्
एवमस्त्विति तां राजा प्रत्युवाचाविचारयन्। अपि च त्वां हि नेष्यामि नगरं स्वं शुचिस्मिते
यथा त्वमर्हा सुश्रोणि मन्यसे तद्ब्रवीमि ते। एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम्
पुरोहितं समाहूय वचनं युक्तमब्रवीत्। राजपुत्र्या यदुक्तं वै न वृथा कर्तुमुत्सहे
क्रियाहीनो हि न भवेन्मम पुत्रो महाद्युतिः। तथा कुरुष्व शास्त्रोक्तं विवाहं मा चिरंकुरु
एवमुक्तो नृपतिना द्विजः परमयन्त्रितः। शोभनं राजराजेति विधिना कृतवान्द्विजः
शासनाद्विप्रमुख्यस्य कृतकौतुकमङ्गलः।' जग्राह विधिवत्पाणावुवास च तया सह
विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः। प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम्
त्रैविद्यवृद्धैः सहितां नानाराजजनैः सह। शिबिकासहस्रैः सहिता वयमायान्ति बान्धवाः
मूकाश्चैव किराताश्च कुब्जा वामनकैः सह। सहिताः कञ्चुकिवरैर्वाहिनी सूतमागधैः
शङ्खदुन्दुभिनिर्घोषैर्वनं च समुपैष्यति। तथा त्वामानयिष्यामि नगरं स्वं शुचिस्मिते
अन्यथा त्वां न नेष्यामि स्वनिवेशमसत्कृताम्। सर्वमङ्गलसत्कारैः सुभ्रु सत्यं करोमि ते
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम्। परिष्वज्य च बाहुभ्यां स्मितपूर्वमुदैक्षत
प्रदक्षिणीकृतां देवीं पुनस्तां परिषस्वजे। शकुन्तला सा सुमुखी पपात नृपपादयोः
तां देवीं पुनरुत्थाप्य मा शुचेति पुनः पुनः। शपेयं सुकृतेनैव प्रापयिष्ये नृपात्मजे
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय। मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिव
भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति। तं न प्रसाद्यागतोऽहं प्रसीदेति द्विजोत्तमम्। एवं संचिन्तयन्नेव प्रविवेश स्वकं पुरम्
ततो मुहूर्ते याते तु कण्वोऽप्याश्रममागमत्। शकुन्तला च पितरं ह्रिया नोपजगाम तम्
शङ्कितेव च विप्रर्षिमुपचक्राम सा शनैः। ततोऽस्य भारं जग्राह आसनं चाप्यकल्पयत्
प्राक्षालयच्च सा पादौ काश्यपस्य महात्मनः। न चैनं लज्जयाऽशक्नोदक्षिभ्यामभिवीक्षितुम्
शकुन्तला च सव्रीडा तमृषिं नाभ्यभाषत। तस्मात्स्वधर्मात्स्खलिता भीता सा भरतर्षभ