गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथं प्रतिपन्नस्य परित्यागो विधीयते
स त्वं गुरुरिति प्रेम्णा मया संमानितो भृशम् । गुरुवृत्तिं न जानीषे तस्माद्योत्स्यामि वै त्वया
गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः । विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव
उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत्। यो हन्यात्समरे क्रुद्धं युध्यन्तमपलायिनम्
ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः । क्षत्रियाणां स्थितो धर्म क्षत्रियोऽस्मि तपोधन
यो यथा वर्तते यस्मिंस्तस्मिन्नेव प्रवर्तयन् । नाधर्मं समवाप्नोति न चाश्रेयश्च विन्दति
अर्थे वा यदि वा धर्मे समर्थो देशकालवित् । अर्थसंशयमापन्नः श्रोयान्निःसंशयो नरः
यस्मात्संशयितेऽप्यर्थेऽयथान्यायं प्रवर्तसे । तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे
पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम् । एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन
तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह । द्वन्द्वे राम यथेष्टं मे सञ्जीभव महाद्युते
तत्र त्वं निहतो राम मया शरशतार्दितः । प्राप्स्यसे निर्जिताँल्लोकाञ्शस्त्रपूतो महारणे
स गच्छ विनिवर्तस्व कुरुक्षोत्रं रणप्रिय । तत्रैष्यामि महाबाहो युद्धाय त्वांतपोधन
अपि यत्र त्वया राम कृतं शौचं पुरा पितुः । तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव
तत्र राम समागच्छ त्वरितं युद्धदुर्मद । व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव
यच्चापि कत्थसे राम बहुशः परिवत्सरे । निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छ्रुणु
न तदा जातवान्भीष्मः क्षत्रियो वापि मद्विधः । पञ्चाञ्चातानि तेजांसि तृणेषु ज्वलितं त्वया
यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत्। सोऽहं जातो महाबाहो भीष्मः परपुरंजयः। व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः
ततो मामब्रवीद्रामः प्रहसन्निव भारत। दिष्ट्या भीष्म मया सार्धं योद्धुमिच्छसि संगरे
अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह। भाषितं ते करिष्यामि तत्रागच्छ परंतप
तत्र त्वां निहतं माता मया शरशताचितम् । जाह्नवी पश्यतां भीष्म गृध्रकङ्कबलाशनम्
कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता । मया विनिहतं देवी रोदतामद्य पार्थिव
अतदर्हा महाभागा भगीरथसुताऽनघा । या त्वामजीजनन्मन्दं युद्धकामुकमातुरम्
एहि गच्छ मया भीष्म युद्धकामुक दुर्मद । गृहाण सर्वं कौरव्य रथादि भरतर्षभ
इति ब्रुवाणं तमहं रामं परपुरंजयमक् । प्रणम्यक शिरसा राममेवमस्त्वित्यथाब्रवम्
एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया । प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम्
ततः कृतस्वस्त्ययनो मात्रा च प्रतिनन्दितः। द्विजातीन्वाच्य पुण्याहं स्वस्ति चैव महाद्युते
रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः। सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम्
उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम् । तत्कुलीनेन वीरेण हयशास्त्रविदा रणे
यत्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा । दंशितः पाण्डुरेणाहं कवचेन वपुष्मता
पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम । पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि