प्रणम्य तमहं मूर्ध्ना भूयो ब्राह्मणसत्तमम् । अब्रुवं कारणं किं तद्यत्त्वं युद्धं मयेच्छसि
इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम्। उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव
ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः । जानीषे मां गुरुं भीष्म गृह्णासीमां न चैव ह
सुतां काश्यस्य कौरव्य मत्प्रियार्थं महामते। न हि मे विद्यते शान्तिरन्यथा कुरुनन्दन
गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः। त्वया विभ्रंशिता हीयं भर्तारं नाधिगच्छति
तथा ब्रुवन्तं तमहं रामं परपुरंयम्। नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते
गुरुत्वं त्वयि संप्रेक्ष्य जामदग्न्य पुरातनम् । प्रसादये त्वां भगवंस्त्यक्तैषा तु पुरा मया
को जातु परभावां हि नारीं व्यालीमिव स्थिताम् । वासयेत गृहे जानन्स्त्रीणां दोषो महात्ययः
न भयाद्वासवस्यापि धर्मं जह्यां महाव्रत । प्रसीद मा वा यद्वा ते कार्यं तत्कुरु मा चिरम्
अयं चापि विशुद्धात्मन्पुराणे श्रूयते विभो। मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथं प्रतिपन्नस्य परित्यागो विधीयते
स त्वं गुरुरिति प्रेम्णा मया संमानितो भृशम् । गुरुवृत्तिं न जानीषे तस्माद्योत्स्यामि वै त्वया
गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः । विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव
उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत्। यो हन्यात्समरे क्रुद्धं युध्यन्तमपलायिनम्
ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः । क्षत्रियाणां स्थितो धर्म क्षत्रियोऽस्मि तपोधन
यो यथा वर्तते यस्मिंस्तस्मिन्नेव प्रवर्तयन् । नाधर्मं समवाप्नोति न चाश्रेयश्च विन्दति
अर्थे वा यदि वा धर्मे समर्थो देशकालवित् । अर्थसंशयमापन्नः श्रोयान्निःसंशयो नरः
यस्मात्संशयितेऽप्यर्थेऽयथान्यायं प्रवर्तसे । तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे
पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम् । एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन
तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह । द्वन्द्वे राम यथेष्टं मे सञ्जीभव महाद्युते
तत्र त्वं निहतो राम मया शरशतार्दितः । प्राप्स्यसे निर्जिताँल्लोकाञ्शस्त्रपूतो महारणे
स गच्छ विनिवर्तस्व कुरुक्षोत्रं रणप्रिय । तत्रैष्यामि महाबाहो युद्धाय त्वांतपोधन
अपि यत्र त्वया राम कृतं शौचं पुरा पितुः । तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव
तत्र राम समागच्छ त्वरितं युद्धदुर्मद । व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव
यच्चापि कत्थसे राम बहुशः परिवत्सरे । निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छ्रुणु
न तदा जातवान्भीष्मः क्षत्रियो वापि मद्विधः । पञ्चाञ्चातानि तेजांसि तृणेषु ज्वलितं त्वया
यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत्। सोऽहं जातो महाबाहो भीष्मः परपुरंजयः। व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः
ततो मामब्रवीद्रामः प्रहसन्निव भारत। दिष्ट्या भीष्म मया सार्धं योद्धुमिच्छसि संगरे
अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह। भाषितं ते करिष्यामि तत्रागच्छ परंतप
तत्र त्वां निहतं माता मया शरशताचितम् । जाह्नवी पश्यतां भीष्म गृध्रकङ्कबलाशनम्