जहि भीष्मं रणे राम मम चेदिच्छसि प्रियम्। प्रतिश्रुतं च यदपि तत्सत्यं कर्तुमर्हसि
तयोः संवदतोरेवं राजन्रामाम्बयोस्तदा । अकृतव्रणो जामदग्न्यमिदं वचनमब्रवीत्
शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि । यदि भीष्मो रणे राम समाहूतस्त्वया मृधे
निर्जितोऽस्मीति वा ब्रूयात्कुर्याद्वा वचनं तव । कृतमस्या भवेत्कार्यं कन्याया भृगुनन्दन ।। वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो । इयं चापि प्रतिज्ञा ते तदा राम महामुने
जित्वा वै क्षत्रियान्सर्वान्ब्रह्मणेषु प्रतिश्रुता । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि
ब्रह्मद्विङ्भविता तं वै हनिष्यामीति भार्गव । शरणार्थे प्रपन्नानां भीतानां शरणार्थिनाम्
न शक्ष्यामि परित्यागं कर्तुं जीवन्कथंचन । यश्च कृत्स्नं रणे क्षत्रं विजेष्यति समागतम्
दीप्तात्मानमहं तं च हनिष्यामीति भार्गव । स एवं विजयी राम भीष्मः कुरुकुलोद्वहः । तेन युध्यस्व सङ्ग्रमे समेत्य भृगुनन्दन
स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम। तथैव त्त करिष्यामि यथा साम्नैव लप्स्यते
कार्यमेतन्महद्ब्रह्मन्काशिकान्यामनोगतम्। गमिष्यामि स्वयं कन्यामादाय यत्र सः
यदि भीष्मो रणश्लाघी न करिष्यति मे वचः। हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः
न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम्। कायेषु विदितं तुभ्यं पुरा क्षत्रियसंगरे
एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः। प्रयाणाय मतिं कृत्वा समुत्तस्थौ महातपाः
ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः । हुताग्नयो जप्तजप्याः प्रतस्थुर्मञ्जिघांसया
अभ्यगच्छत्ततो रामः सह तैर्ब्रह्मवादिभिः । कुरुक्षेत्रं महाराज कन्यया सह भारत
न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम् । तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः
ततस्तृतीये दिवसे समे देशे व्यवस्थितः । प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः
तमागतमहं श्रुत्वा विषयान्तं महाबलम् । अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम्
गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः। ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः
स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान् । प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत्
भीष्म कां बुद्धिमास्थाय काशिराजसुता तदा। अकामेन त्वया नीता पुनश्चैव विसर्जिता
विभ्रंशिता त्वया हीयं धर्मादास्ते यशस्विनी । परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति
प्रत्याख्याता हि साल्वेन त्वया नीतेति भारत। तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत
स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम्। न युक्तस्त्ववमानोऽयं राज्ञां कर्तुं त्वयाऽनघ
ततस्तं वै विमनसमुदीक्ष्याहमथाब्रुवम्। नाहमेनां पुनर्दद्यां ब्रह्मन्भ्रात्रे कथञ्चन
साल्वस्याहमिति प्राह पुरा मामेव भार्गव। मया चैवाभ्यनुज्ञाता गतेयं नगरं प्रति
न भयान्नाप्यनुक्रोशान्नार्थलोभान्न काम्यया। क्षात्रं धर्ममहं जह्यमिति मे व्रतमाहितम्
अथ मामब्रवीद्रामः क्रोधपर्याकुलेक्षणः। न करिष्यसि चेदेतद्वाक्यं मे नरपुङ्गव
हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः । संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः
तमहं गीर्भिरिष्टाभि पुनः पुनररिन्दम। अयाचं भृगुशार्दूलं न चैव प्रशशाम सः