किमियं वक्ष्यतीत्येवं विममर्श भृगूद्वहः। इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः
कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता। सर्वमेव यथातत्त्वं कथयामास भार्गवे
तच्छुत्वा जामदग्र्यस्तु राजपुत्र्या वचस्तदा । उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम्
प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि । करिष्यति वचो मह्यं श्रुत्वा च स नराधिपः
न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः। धक्ष्याम्यहं रणे भद्रे सामात्यं शस्त्रतेजसा
अथवा ते मतिस्तत्र राजपुत्रि न वर्तते। यावत्साल्वपतिं वीरं योजयाम्यत्र कर्मणि
विसर्जिताऽहं भीष्मेण श्रुत्वैव भृगुनन्दन। साल्वराजगतं भावं मम पूर्वं मनीषितम्
सौभराजमुपेत्याहमवोचं दुर्वचं वचः। न च मां प्रत्यगृह्णात्स चारित्र्यपरिशङ्कितः
एतत्सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन । यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि
मम तु व्यसनस्यास्य भीष्मो मूलं महाव्रतः। येनाहं वशमानीता समत्क्षिप्य बलात्तदा
भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम् । प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम्
स हि लुब्धश्च नीचश्च जितकाशी च भार्गव । तस्मात्प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयाऽनघ
एष मे ह्रियमाणाया भारतेन तदा विभो। अभवद्धृदि संकल्पो घातयेदं महाव्रतम्
तस्मात्कामं ममाद्येमं राम संपादयानघ। जहि भीष्मं महाबाहो यथा वृत्रं पुरन्दरः
एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो। उवाच रुदतीं कन्यां चोदयन्तीं पुनः पुनः
काश्ये न कामं गृह्णामि शस्त्रं वै वरवर्णिनि। ऋते ब्रह्मविदां हेतोः किमन्यत्करवाणि ते
वाचा भीष्मश्च साल्वश्च मम राज्ञि वशानुगौ। भविष्यतोऽनवद्याङ्गि तत्करिष्यामि मा शुचः
न तु शस्त्रं ग्रहीष्यामि कथंचिदपि भामिनि । ऋते नियोगाद्विप्राणामेष मे समयः कृतः
मम दुःखं भगवता व्यपनेयं यतस्ततः। तच्च भीष्मप्रसूतं मे तं जहीश्वर मा चिरम्
काशिकन्ये पुनर्ब्रूहि भीष्मस्ते चरणावुभौ। शिरसा वन्दनार्होऽपि ग्रहीष्यति गिरा मम
जहि भीष्मं रणे राम मम चेदिच्छसि प्रियम्। प्रतिश्रुतं च यदपि तत्सत्यं कर्तुमर्हसि
तयोः संवदतोरेवं राजन्रामाम्बयोस्तदा । अकृतव्रणो जामदग्न्यमिदं वचनमब्रवीत्
शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि । यदि भीष्मो रणे राम समाहूतस्त्वया मृधे
निर्जितोऽस्मीति वा ब्रूयात्कुर्याद्वा वचनं तव । कृतमस्या भवेत्कार्यं कन्याया भृगुनन्दन ।। वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो । इयं चापि प्रतिज्ञा ते तदा राम महामुने
जित्वा वै क्षत्रियान्सर्वान्ब्रह्मणेषु प्रतिश्रुता । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि
ब्रह्मद्विङ्भविता तं वै हनिष्यामीति भार्गव । शरणार्थे प्रपन्नानां भीतानां शरणार्थिनाम्
न शक्ष्यामि परित्यागं कर्तुं जीवन्कथंचन । यश्च कृत्स्नं रणे क्षत्रं विजेष्यति समागतम्
दीप्तात्मानमहं तं च हनिष्यामीति भार्गव । स एवं विजयी राम भीष्मः कुरुकुलोद्वहः । तेन युध्यस्व सङ्ग्रमे समेत्य भृगुनन्दन
स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम। तथैव त्त करिष्यामि यथा साम्नैव लप्स्यते
कार्यमेतन्महद्ब्रह्मन्काशिकान्यामनोगतम्। गमिष्यामि स्वयं कन्यामादाय यत्र सः