उपपदमिदं भद्रे यदेवं वरवर्णिनि । धर्मं प्रतिवचो ब्रूयाः श्रृणु चदं वचो मम
यदि त्वामापगेयो वै न नयेद्गजसाह्वयम् । साल्वस्त्वा शिरसा भीरु गृह्णीयाद्रामचोदितः
तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनि । संशयः साल्वराजस्य तेन त्वयि सुमध्यमे
भीष्मः पुरुषमानी च जितकाशी तथैव च। तस्मात्प्रतिक्रिया युक्ता भीष्मे कारयितुं तव
ममाप्येष सदा ब्रह्मन्हृदि कामोऽभिवर्तते। घातयेयं यदि रणे भीष्ममित्येव नित्यदा
भीष्मं वा साल्वराजं वा यं वा दोषेण गच्छसि । प्रशाधि तं महाबाहोयत्कृतेऽहं सुदुःखिता
एवं कथयतामेव तेषां स दिवसो गतः । रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता
ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसा । शिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः
धनुष्पाणिरदीनात्मा खङ्गं बिभ्रत्परश्वधी । विरजा राजशार्दूल सृञ्जयं सोऽभ्ययान्नृपम्
ततस्तं तापसा दृष्ट्वा स च राजा महातपाः । तस्थुः प्राञ्जलयो राजन्सा च कन्या तपस्विनी
पूजयामासुरव्यग्रा मधुपर्केण भार्गवम्। अर्चितश्च यथान्यायं निषसाद सहैव तैः
ततः पूर्वव्यतीतानि कथयन्तौ स्म तावुभौ । आसातां जामदग्न्यश्च सृञ्जयश्चैव भारत
तथा कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम् । उवाच मधुरं काले रामं वचनमर्थवत्
रामेयं मम दौहित्री काशिराजसुता प्रभो । अस्याः श्रृणु यथातत्त्वं कार्यं कार्यविशारद
परमं कथ्यतां चेति तां रामः प्रत्यभाषत । ततः साभ्यवदद्रामं ज्वलन्तमिव पावकम्
ततोऽभिवाद्य चरणौ रामस्य शिरसा शुभौ । स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता
रुरोद सा शोकवती बाष्पव्याकुललोचना। प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम्
यथा त्वं सृंजयस्यास्य तथा मे त्वं नृपात्मजे । ब्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव
भगवञ्शरणं त्वाद्य प्रपन्नाऽस्मि महाव्रतम् । शोकपङ्कार्णवान्मग्नं घोरादुद्धर मां विभो
तस्याश्च दृष्ट्वा रूपं च वपुश्चाभिनवं पुनः। सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत्
किमियं वक्ष्यतीत्येवं विममर्श भृगूद्वहः। इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः
कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता। सर्वमेव यथातत्त्वं कथयामास भार्गवे
तच्छुत्वा जामदग्र्यस्तु राजपुत्र्या वचस्तदा । उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम्
प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि । करिष्यति वचो मह्यं श्रुत्वा च स नराधिपः
न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः। धक्ष्याम्यहं रणे भद्रे सामात्यं शस्त्रतेजसा
अथवा ते मतिस्तत्र राजपुत्रि न वर्तते। यावत्साल्वपतिं वीरं योजयाम्यत्र कर्मणि
विसर्जिताऽहं भीष्मेण श्रुत्वैव भृगुनन्दन। साल्वराजगतं भावं मम पूर्वं मनीषितम्
सौभराजमुपेत्याहमवोचं दुर्वचं वचः। न च मां प्रत्यगृह्णात्स चारित्र्यपरिशङ्कितः
एतत्सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन । यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि
मम तु व्यसनस्यास्य भीष्मो मूलं महाव्रतः। येनाहं वशमानीता समत्क्षिप्य बलात्तदा