ततस्ते कथयामासुः कथास्तास्ता मनोरमाः । धन्या दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः
ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः । रामं श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम्
क्व संप्रति महाबाहो जामदग्न्यः प्रतापवान् । अकृतव्रण शक्यो वै द्रुष्टुं वेदविदां वर
भवन्तमेव सततं रामः कीर्तयति प्रभो। सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव
इह रामः प्रभाते श्वो भवितेति मतिर्मम। द्रष्टस्येनमिहायान्तं तव दर्शनकाङ्क्षया
इयं च कन्या राजर्षे किमर्थं वनमागता। कस्य चेयं तव च का भवतीच्छामि वेदितुम्
दौहित्रीयं मम विभो काशिराजसुता प्रिया। ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानध
इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता। अम्बिकाम्बालिके कन्ये कनीयस्यौ तपोधन
समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत्। कन्यानिमित्तं विप्रर्षे तत्रासीदुत्सवो महान्
तता किल महावीर्यो भीष्मः शान्तनवो नृपान् । अधिक्षिप्य महातेजास्तिस्त्रः कन्या जहार ताः
निर्जित्य पृथिवीपालानथ भीष्मो जगाह्वयम् । आजगाम विशुद्धात्मा कन्याभिः सह भारतः
सत्यवत्यै निवेद्याथ विवाहं समनन्तरम् । भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः
तं तु वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम् । अब्रवीत्तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ
मया साल्वपतिर्वीरो मनसाऽभिवृतः पतिः । न ममार्हसि धर्मज्ञ दातुं भ्रात्रेऽन्यमानसाम्
तच्छ्रुत्वा वचनं भीष्मः संमन्त्र्य सह मन्त्रिभिः । निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः
अनुज्ञाता तु भीष्मेण साल्वं सौभपतिं ततः। कन्येयं मुदिता तत्र काले वाचनमब्रवीत्
विसर्जितास्मि भीष्मेण धर्मं मां प्रतिपादय। मनसाभिवृत्तः पूर्वं मया त्वं पार्थिवर्षम
प्रत्याचख्यौ च साल्वोऽस्याश्चारित्रस्याभिशङ्कितः । सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम्
मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात्। अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते
भगवन्नेवमेवेह यथाह पृथिवीपतिः। शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः
न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन । अपमानभयाच्चैव व्रीडया च महामुने
यत्तु मां भगवान्रामो वक्ष्यति द्विजसत्तम । तन्मे कार्यतमं कार्यमिति मे भगवन्मतिः
दुःख द्वयोरिदं भद्रे कतरस्य चिकीर्षसि। प्रतिकर्तव्यमबले तत्त्वं वत्से वदस्व मे
यदि सौभपतिर्भद्रे नियोक्तव्यो मतस्तव । नियोक्ष्यति महात्मा स रामस्त्वद्धितकाम्यया
अथापगेयं भीष्मं त्वं रामेणेच्छसि धीमता । रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः
सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते। यदत्र ते भृशं कार्यं तदद्यैव विचिन्त्यताम्
अपनीतास्मि भीष्मेण भगवन्नविजानता। नाभिजानाति मे भीष्मो ब्रह्मन्साल्वगतं मनः
एतद्विचार्य मनसा भवानेतद्विनिश्चयम्। विचिनोतु यथान्यायं विधानं क्रियतां तथा
भीष्मे वा कुरुशार्दूले शाल्वराजेऽथवा पुनः। उभयोरेव वा ब्रह्मन्युक्तं यत्तत्समाचर
निवेदितं मया ह्येतद्दुःखमूलं यथातथम् । विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः