प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः । राजपुत्र्याः प्रकृत्या चक कुमार्यास्तव भामिनि
भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि । आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे
ततस्त्वन्येऽब्रुवन्वाक्यं तापसास्तां तपस्विनीम्
त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने। प्रार्थयिष्यन्तिराजानस्तस्मान्मैवं मनः कृथाः
न शक्यं काशिनगरं पुनर्गन्तुं पितुर्गृहान्। अवज्ञाता भविष्यामि बान्धवानां न संशयः
उषितास्मि तथा बाल्ये पितुर्वेश्मनि तापसाः । नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम। तपस्तप्तुमभीप्सामि तापसैः परिरक्षिता
यथा परेऽपि मे लोके न स्यादेवं महात्ययः । दौर्भाग्यं तापसश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः
इत्येवं तेषु विप्रेषु चिन्तयन्सु यथातथम्। राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः । `तां तथा भाविनीं दृष्ट्वा श्रुत्वा चोद्विग्रमानसः
ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम् । पूजाभिः स्वागताद्याभिरासनेनोदकेन च
तस्योपविष्टस्य सतो विश्रान्तस्योपश्रृण्वतः। पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः
अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत। राजर्षिः स महातेजा बभूवोद्विग्रमानसः
तां तथावादिनीं श्रुत्वा दृष्ट्वा च स महातपाः । राजर्षिः कृपयाविष्टो महात्मा होत्रवाहनः
स वेपमान उत्थाय मातुस्तस्याः पिता तदा। तां कन्यामङ्कमारोप्य पर्यश्वासयत प्रभो
स तामपृच्छत्कार्त्स्न्येन व्यसनोत्पत्तिमादितः । सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत्
ततः स राजर्षिरभूद्दुःखशोकसमन्वितः। कार्यं च प्रतिपेदे तन्मनसां सुमहातपाः
अब्रवीद्वेपमानश्च कन्यामार्तां सुदुःखितः । मा गाः पितुर्गृहं भद्रे मातुस्ते जनको ह्यहम्
दुःखं छिन्द्यामहं ते वै मयि वर्तस्व पुत्रिके। पर्याप्तं ते मनो वत्से यदेवं परिशुष्यसि
गच्छ मद्वचनाद्रामं जामदग्न्यं तपस्विनम् । रामस्ते सुमहद्दुःखं शोकं चैवापनेष्यति
हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः । तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम्
प्रतिष्ठापयिता स त्वां समे पथि महातपाः । ततस्तु सुस्वरं बाष्पसुत्सृजन्ती पुनः पुनः
अब्रवीत्पितरं मातुः मा तदा होत्रवाहनम् । अभिवादयित्वा शिरसा गमिष्ये तव शासनात्
अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम् । कथं च तीव्रं दुःकं मे नाशकयिष्यति भार्गवः। एतदिच्छाम्यहं ज्ञातुं यथा यास्यमि तत्र वैः
रामं द्रक्ष्यसि भद्रे त्वं जामदग्न्यं महावने। उग्रे तपसि वर्तन्तं सत्यसन्धं महाबलम्
महेन्द्रं वै गिरिश्रेष्ठं रामो नित्यमुपास्ति ह। ऋषयो वेदविद्वांसो गन्धर्वाप्सरसस्तथा
तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम। अभिवाद्य च तं मूंर्ध्ना तपोवृद्धं दृढव्रतम्
ब्रूयाश्चैनं पुनर्भद्रे यत्ते कार्यं मनीषितम् । मयि संकीर्तिते रामः सर्वं तत्ते करिष्यति
मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे। जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः
एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने । अकृतव्रणः प्रादुरासीद्रामस्यानुचरः प्रियः
ततस्ते मनुयः सर्वे समुत्तस्थुः महस्रशः । स च राजा वयोवृद्धः सृञ्ययो होत्रवाहनः
ततो दृष्ट्वा कृतातिथ्यमन्योन्यं ते वनौकसः । सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम्