एवं तां भाषमाणां तु कन्यां साल्वपतिस्तदा। परितत्याज कौरव्य करुणं परिदेवतीम्
गच्छ गच्छेति तां साल्वः पुनः पुनरभाषत। बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः
एवमुक्ता तु सा तेन साल्वेनादीर्घदर्शिना । निश्चक्राम पुराद्दीना रुदती कुररी यथा
निष्क्रामन्ती तु नगराच्चिन्तयामास दुःखिता । पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया
बन्धुर्भिर्विप्रहीणास्मि साल्वेन च निराकृता । न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम्
अनुज्ञाता तु भीष्मेण साल्वमुद्दिश्य कारणम्। किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम्
अथवा पितरं मूढं यो मेऽकार्षीत्स्वयंवरम् । मयाऽयं स्वकृतो दोषो याऽहं भीष्मरथात्तदा
प्रवृत्ते दारुणे युद्धे साल्वार्थं नापतं पुरा। तस्येयं फलनिर्वृत्तिर्यदापन्नाऽस्मि मूढवत्
धिग्भीष्मं धिक्क मे मन्दं पितरं मूढचेतसम् । येनाहं वीर्यशुल्केन पण्यस्त्रीव प्रचोदिता
धिङ्मां धिक्साल्वराजानं धिग्धातारमथापि वा । येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम्
सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः । अनयस्यास्य तु मुखं भीष्मः शान्तनवो मम
सा भीष्मे प्रतिकर्तव्यमहं पश्यामि सांप्रतम् । तपसा वा युधा वापि दुःखहेतुः स मे मतः
को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः । एवं सा परिनिश्चित्य जगाम नगराद्बहिः
आश्रमं पुण्यशीलानां तापसानां महात्मनाम् । ततस्तामवसद्रात्रिं तापसैः परिवारिता
आचख्यौ च यथावृत्तं सर्वमात्मनि भारत । विस्तरेण महाबाहो निखिलेन शुचिस्मिता । हरणं च विसर्गं च साल्वेन च विसर्जनम्
ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतः । शैखावत्यस्तपोबृद्धः शास्त्रे चारण्यके गुरुः
आर्ता तामाह स मुनिः शैखावत्यो महातपाः । निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम्
एवं गते तु किं भद्रे शक्यं कर्तुं तपस्विभिः । आश्रमस्थैर्महाभागे तपोयुक्तैर्महात्मभिः
सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः । प्राव्राज्यमहमिच्छामि तपस्तप्स्यामि दुश्चरम्
मयैव यानि कर्माणि पूर्वदेहे तु मूढया। कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम्
नोत्सहे तु पुनर्गन्तुं स्वजनं प्रति तापसाः । प्रत्याख्याता निरानन्दा साल्वेन च निराकृता
उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः । युष्माभिर्देवसंकाशैः कृपा भवतु वो मयि
स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः । सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह
ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा। तां कन्यां चिन्तयन्तस्ते किंकार्यमिति धर्मिणः
केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः । केचिदस्यदुमालम्भे मतिं चक्रुर्हि तापसाः
केचित्साल्वपतिं गत्वा नियोज्यमिति मेनिरे। नेति केचिद्व्यवस्यन्ति प्रत्याख्याता हि तेन सा
एवं गते तु किं शक्यं भद्रे कर्तुं मनीषिभिः । पुनरूचुश्च तां सर्वे तापसाः संशितव्रताः
अलं प्रव्रजितेनेह भद्रे श्रृणु हितं वचः। इतो गच्छस्व भद्रं ते पितुरेव निवेशनम्
प्रतिपस्त्यति राजा स पिता ते यदनन्तरम् । तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता
न च तेऽन्या गतिर्न्याय्या भवेद्भद्रे यथा पिता । पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि । गतिः पतिः समस्थाया विषमे च पिता गतिः